________________
s:]
मोहराजपराजयम् ।
आपाथोधि कुमारपालनृपतिर्देवो रुदत्या धनं
बिभ्राणः सदयं प्रजासु हृदयं मुश्चत्ययं तत्स्वयम् ॥ ५५॥ सर्वे--(समाकर्ण्य ) प्रियं प्रियं नः। राजा-इयता कृतार्थोऽस्मि ।
(नेपथ्ये) किं बालार्कविभावलेविलसितं विस्पन्दितं विद्युता
मेतत्किस्विदिति भ्रमात्पुरजनेनोद्रीवमालोकितः। निर्विच्छेदनभस्समीरणरणद्धण्टाविरावच्छला. याकुर्वन्निजसंपदोऽवतरति व्योम्नो विमानो महान् ॥५६॥
(सर्वे ससंभ्रममूर्ध्वमवलोकयन्ति ।) गुणश्रीः-(सहर्षे ) (१) दिट्टिया विमाणमज्झगदस्स मह पुत्तगस्स कुबेरस्स निच्छिदं सद्दो सुणीयदि ।
(ततः प्रविशत्याकाशयानेन विमानस्थः सकलत्रः कुबेरः।) कुबेरः-(सहर्षे ) प्रिये पातालचन्द्रिके ! कथमभिमतप्रदेशमापतित एव मुहूर्तेन विमानराजः । ततश्च,
पूर्व श्रीवनराजभूमिपतिना व्यालोक्य सल्लक्षणां
क्षोणी स्थापितमेतदत्र नगरं निर्वर्ण्यतां निर्भरम् । श्रीकौमारविहारमौलिवलयालङ्कारपालिध्वज
व्याजाज्जैत्रमदत्त पत्रममरावत्यै यदुच्चैस्तराम् ॥ ५७ ॥ अपि चएषा सु ! सरस्वतीसरिदिदं श्रीसिद्धभर्तुः सर
श्चैतत्तन्वि ! बकस्थलं पृथुयशःस्तंभोऽयमभ्रंलिहः । प्रासादो नृपतेरयं निरुपमः सुश्रोणि ! सौधापण
श्रेणिः क्षोणिरियं श्रियां च नगरे द्रष्टव्यमस्मिन्न किम् ? ॥५०॥ पातालचन्द्रिका-(२) अनउत्त ! सुलद्धं मे जम्मं जमेरिसे नयरे तए सह निवासु त्ति ।
(१) दिष्ट्या विमानमध्यगतस्य मम पुत्रकस्य कुबेरस्य निश्चितं शब्दः श्रूयते। (२) आर्यपुत्र ! सुलब्धं मे जन्म यदीदृशे नगरे वया सह निवास इति ।
"Aho Shrutgyanam"