SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मन्त्रियशः पालविरचितं निष्पुत्रो म्रियते यो यस्तस्य तस्य हताशयाः । पुत्रतां प्रतिपद्यन्ते नृपाः कष्टं धनाशया ॥ ५३ ॥ तदद्यप्रभृति मुक्तमेव मया मृतस्वमिति । महाजनः -- ( सहर्षे ) क एवं देवादपरः कर्तुमीष्टे । गुणश्रीः -- (१) पुत्त ! गिव्ह गिरह एदं दव्वजादं । जदो अहं ससुहा dfह ( इत्यद्धों के ) अणसणं पवज्जिस्सं । ६६ राजा- - अम्ब ! अलममुना साहसेन । ननु कुबेरवदहमस्मि तवात्मज । अपि च, विचित्राणि विधिविलसितानि । कदाचित्कुबेरोऽपि परोपकारसुकृतसंभार पोतसमुत्तीर्णव्यसनार्णवः कथंचिदागच्छेत् । गुणश्रीः - (२) पुत्त ! एदाई य्येव भण पुणो वि अक्खराणि । राजा- - अम्ब ! किमिवासंभाव्यमत्र ? । तथाहिमानादानकदुन्दुभिर्ननु तथा क्लसप्रवासो निजा नागत्यान्दशतान्निरा शहृदयानाश्वासयद्वद्बान्धवान् । प्रद्युम्नश्च पुराकृतादपहृतः स्वर्गीकसा षोडशावर्षादेत्य शुचातुरामतितरामप्रीणयन्मातरम् ॥ ५४ ॥ -(३) पुन्त ! एवं भोदु तुह दीहाउणो वयणेणं । ( इतिशकुनप्रन्थि गुणश्रीःबध्नाति । ) राजा - प्रतीहार ! पटहवादनान्मृतस्वपरिहारं पौराणां विदितं कारय । प्रतीहारः -- यदाज्ञापयति देवः । ( इति निष्क्रामति । ) ( नेपथ्ये ) ----- भो भोः पौराः ! श्रूयतामेषा घोषणा, [ तृतीय निःशूकैः शक्तिं न यनृपतिभिस्त्यक्तुं कचित्प्राक्तनैः - पत्न्याः क्षार इव क्षते पतिमृतौ यस्यापहारः किल । ( १ ) पुत्र ! गृहाण गृहाणैतद् द्रव्यजातम् । यतोऽहं सस्नुषा वह्नि अनशनं प्रपत्स्ये । ( २ ) पुत्र ! एतान्येव भण पुनरप्यक्षराणि । ( ३ ) पुत्र ! एवं भवतु तव दीर्घायुषो वचनेन । १ B & C वहि. "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy