________________
मोहराजपराजयम् ।
राजा - प्रतीहार ! महाजनं द्रष्टुमिच्छामि ।
प्रतीहारः -- यदाज्ञापयति देवः । ( इति निष्क्रम्य महाजनेन सह प्रविशति । ) महाजनः- - ( अपवार्य साशङ्कं ) मृतस्वग्रहणक्षणे क्षोणिपतिरस्मद्दर्शनमिच्छतीति न जाने किं भविष्यति ? ।
ऽङ्कः ]
प्रतीहारः -- इतो देवस्तदुपसर्पतु महाजनः ।
( महाजन उपसृत्य प्रणमति । )
राजा - ( ससंभ्रमं ) आसनमासनं महाजनाय ।
महाजनः - ( परिजनोपनीतमासनमध्यास्य ) प्रसीदतु देवः । किमनुष्ठीयताम् ? इति ।
राजा - ( सजुगुप्सं )
दुर्भिक्षोदयमन्नसंग्रहपरः प्रत्युर्वधं बन्धकी
ध्यायत्यर्थयते भिषग्गद्गणोत्पातं कलिं नारदः । दोषग्राहिजनश्च पश्यति परच्छिद्रं छलं शाकिनी
निष्पुत्रं म्रियमाणमाढ्यमवनीपालो हहा ! वाञ्छति ॥ ५० ॥ महाजनः -- ( अपवारितकेन ) किमेतदुपन्यस्तं देवेन ? | राजा - अपि च,
निर्वीराद्रविणादानाद्यद्भवेत्पातकं महत् ।
आक्रान्तस्तद्भरेणेव नृपो याति रसातलम् ॥ ५१ ॥ महाजनः -- ( कर्णौ पिधाय ) शान्तं पापम् ।
राजा ---स्थाने लौकिका अपि राजानमेवं पापमयमाचक्षते । तथाहिदशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ ५२ ॥
महाजनः- - किमेवं सकलैपूर्व भूपालपरंपरापरिक्षुण्णं मृतस्व ग्रहणव जुगुप्सते देवः ? |
•
राजा -- किं बहुनोक्तेन ? :
?,
६५
१ B & C व्यतीति. २ B & C 'लभूपाल
S
"Aho Shrutgyanam"