________________
६४
[तृतीयो
मन्त्रियशःपालविरचितं वामदेवः-(१) तदो कुबेरेण वाहरिदा नियनरा । राजा-तकिमत्रार्थे प्रवृत्ताऽमीषामहमहमिका ?। वामदेवः-(२) नहि नहि, किंतु अहोमुहत्तणं कडुय ठिदो सव्वे । राजा-धिगेतान्नरापसदान् । यतः
अद्य श्वो वा ध्रुवे मृत्यौ स्वस्यैकस्य व्ययाद्यदि ।
रक्ष्यन्ते भूयसां प्राणाः पर्यासमियता न किम् ? ॥४८॥ वामदेवः--(३) ममं पि हदगं तस्स आकिदिगणस्स मज्झवत्तिणं परिभावेदु देवो।
राजा-ततः किं प्रतिपन्नं कुबेरेण? । वामदेवः-(४) किमन्नं ? सयं य्येव कदं गमणं ।
राजा--(आकाशे लक्षं बढ्दा सरोमाञ्चं ) साधु भोः कुबेर ! साधु । यदेवं परार्थे प्राणांस्तृणवद्गणितवानसि । अपि च
बद्धस्त्वयात्मा धुरि धार्मिकाणां
रेखाधिकः सत्पुरुषेष्वभूस्त्वम् । न्यधाः पदं मूर्धनि सात्त्विकाना
__ मलेखि चन्द्रे भवता स्वनाम ॥ ४९ ॥ वामदेवः-(५) तदा मुहुत्तमित्तेण उच्छलिदो निनादो। उड्डीणाणि भारंडकुलाणि । नीहरिदाणि जाणवत्ताणि । पत्ताणि कमेण भरुयच्छं । तत्थ कुबेरसंतियं भंडं परदेसविढत्तदव्वं च ववहारिजणस्स नासीकडुय इहागर्दै म्ह।
(१) ततः कुबेरेण व्याहृता निजनराः । (२) नहि नहि, किन्तु अधोमुखत्वं कृत्वा स्थिताः सर्वे । (३) मामपि हतकं तस्याकृतिगणस्य मध्यवर्तिनं परिभावयतु देवः । (४) किमन्यत् ? स्वयमेव कृतं गमनम् ।
(५) तदा मुहूर्तमात्रेणोच्छलितो निनादः । उड्डीनानि भारुण्डकुलानि । निस्सृतानि यानपात्राणि । प्राप्तानि क्रमेण भृगुकच्छम् । तत्र कुबेरसत्कं भाण्डं परदेशार्जितद्रव्यं च व्यवहारिजनस्य न्यासीकृत्येहागताः स्मः ।
१ B&Cहिया २ B & C 'द म्हि.
"Aho Shrutgyanam"