________________
मन्त्रियशःपालविरचितं
[तृतीयो. प्राप्तः कौणपतां नृपो विधिवशाद्धर्थेऽध्वनि स्थापितः स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नावृतम् ? ॥५९॥
(कुबेरो लज्जा नाटयति।)
(नेपथ्ये) वैतालिक:
उच्छेद्य यः सप्त भयानि सर्वतः
प्रयोज्य धर्मे भुवनं सनातने। निरङ्कुशं क्रीडति सिद्धियोषिता
मध्याह्नतापं हरताजिनः स वः ॥ ३०॥ राजा-कथमयमाशीर्वचनव्यपेदेशादस्मान्मध्याह्नकृत्याय त्वरयति वैतालिकः ? । तत्कुबेरष्टिन् ! गृहाण निजलक्ष्मीम् । आश्वासय जननीम् । प्रीणय प्रणयिजनम् । प्रवर्तस्व धर्मकर्मणि । वयमपि यतामहे मध्याह्नपूजां कर्तुम् ।
( इति निष्क्रान्ताः सर्वे ।)
तृतीयोऽङ्कः।
"Aho Shrutgyanam"