________________
२६८
चतुर्विशतिप्रबन्धे विश्वाग्निविश्वोन्मित( ३३३ )सरिवर्ग
श्चतुःसहस्री द्विशती (४२००) युता च । सङ्ख्या मुनीनां च दिगम्बराणा__ मेकादशानीह शतानि ( ११०० ) सङ्घ ॥३॥' त्रयः सहस्रास्त्रिशती ( ३३०० ) च भट्टाः
शतं च साई ( १५० ) वरनर्तकीनाम् । अश्वास्तु वेदाङ्कसहस्र( ४००० )सङ्ख्याः
साशीति चत्वारि शतानि( ४८०) तूष्ट्रयः ॥४॥
विक्रमार्कसमये सुरगर्षि-बध्न( १२६१ )वत्सरकृतादिमयात्रः । १० इत्थमद्भुतसमृद्धिसुकीर्ति-वस्तुपालसचिवः स मुदेऽस्तु ॥५॥
कोटीनां त्रिशतानि सप्ततिरहो कोटयस्त्रिभिः साधिका
लक्षाः सप्ततिरद्भुतैकसुकृतेष्वासन् व्ययैः सर्वतः । मात्रा द्वादश यस्य सार्द्धसहिताः पूर्वोक्तसामग्रिका
इत्थं कल्पतरुः श्रितातिहरणे श्रीवस्तुपालः कलौ ॥६॥ १५ जैनागारसहस्रपञ्चकमिति स्फारं च पादाधिक
लक्षं श्रीजिनमूर्तयः सुविहिताः प्रोत्तुङ्गमाहेश्वराः । प्रासादाः पृथिवीतले ध्वजयुताः सार्धं सहस्रद्वयं
प्राकाराः परिकल्पिता निजधनैर्द्वात्रिंशदत्र धुवम् ॥७॥ सत्रागारशतानि सप्त विमला वाप्यश्चतुःषष्टयः
प्रोच्चैः पौषधमन्दिराणि सुमहज्जैनाश्च शैवा मठाः । विद्यायाश्च तथैव पञ्चशतिकाः प्रत्येकतः प्रत्यहं
पश्चत्रिंशशतानि जैनमुनयो गृहन्ति भोज्यादिकम् ॥८॥ १-२ उपजातिः। 3 स्वागता । ४-६ शार्दूल.