SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ च - परिशिष्टम् एवंविधे शास्तरि वीतदोषे, महाकृपालौ परमार्थवैद्ये । मध्यस्थभावोऽपि हि शोच्य एव, प्रद्वेषदग्धेषु क एष वादः १ ॥ ६ ॥ * न तानि चक्षूंषि न यैर्निरीक्ष्यसे न तानि चेतांसि न यैर्विचिन्त्यसे । न ता गिरो या न वदन्ति ते गुणान् न गुणा ये न भवन्तमाश्रिताः ॥७॥ तचक्षुर्दृश्यसे येन, तन्मनो येन चिन्त्यसे । सज्जनामन्दजननी, सा वाणी स्तूयसे यया ॥८॥ न तव यान्ति जिनेन्द्र ! गुणा मिति शक्तिरुपैति परिक्षयम् । मम तु निगदितैर्बहुभिः किमिहापरै परिमाणगुणोऽसि नमोऽस्तु ते ॥ ९ ॥ * च - परिशिष्टम् । ॥ श्रीवस्तुपालकृतपुण्यकृत्यस्तुतिः ॥ २६७ १० सपञ्चशतमानकं निजपदोत्थधूलीकण प्रणुन्नजनतैनसं जलधिसङ्ख्य साहस्रकम् ( ४५०० ) । सुखासन - सुवाहिनी प्रमुखरूपसच्छ्रीकरी शताष्टदश (१८००) सख्यया समजनि मानमेषां क्रमात् ॥ १॥ * करणपक्षशर (५२५) प्रमितो युतो, विविधदन्त विनिर्मितयुक्तिभिः । सह बभूव सुकर्मपथे रवि-- गण इवामरयानचयः क्षितौ ॥२॥ २० १५ १ उपजाति: । २ उपेन्द्रवज्रा । ३ अनुष्टुप् । ४ दुतविलम्बितम् । ५ सन्तुल्यता यत् प्रोक्तं २५७तमे पृष्ठे । ६ पृथ्वी, चतुर्थे चरणे त्वष्टादशाक्षराणि । ७ देवालय समूहः । * तविलम्बितम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy