________________
चतुर्विंशतिप्रवन्धे
[१० श्रीहेमचन्द्रसूरि
[१०] ॥ अथ हेमसूरिप्रबन्धः ।
' पूर्णतल्ल गच्छे श्रीदत्तसूरिः प्राज्ञः 'वागड'देशे 'वटपद्र' पुरं गतः । तत्र स्वामी यशोभद्रनामा राणक ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्रौ उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रये निषष्णाः । श्रावकामात्यपार्श्वे पृष्टम्--- के एते ?। अमात्यः प्रोचे- देव! महामुनयोऽमी विषमव्रतधारिणः । राणकस्य श्रद्धा बभूव । प्रातर् वन्दितुं गतः ।
देंशना । श्रावकत्वं सुष्टु सम्पन्नम् । मासकल्पमेकं स्थिताः । १० परदेशं गता गुरवः । तावता वर्षाकालः । देवपूजादिधर्मव्यापार
साराण्यहानि गमयति राणः । प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः । तावता बॅण्टानि ज्वालयन्ति भृत्याः । तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तैडफडायमाना सिमिसिमाय
माना राणेण दृष्टा । दयोत्पन्ना । विरक्तश्च । हा हा संसारं, धिग् १५ गृहवासं, कस्य कृते पापमिदमाचर्यते । राज्यमपि दुष्पालं
मायाजालं नरकफलम् । तस्मात् सर्पसङ्गपरित्यागः कार्यः । इति ध्यायन् सौधमायासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽप्राक्षीत् मम धर्मगुरवः श्रीदत्तसूरयः क्व विहरन्ति ! । मन्त्र्याह'डिण्डुआणके' । विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्चपरिवारः सारं हारमेकं सह गृहीत्या शीघ्र 'डिण्डुआणकं ' प्राप्तः । गुरवो दृष्टा वन्दिताः । भववैराग्याद् रुदितः । पदोलगित्ला कथितं स्वपापम् । गुरुभिर्भणितम्----राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवाः । राणकेन न्यगादि- सद्यो दीयता तर्हि तत् । सूरय ओमित्याहुः स्म । राणकेन ' डिंडुआणकीय'१ चन्द्रप्रमायाम् । २ ख-चरणक्षेत्रा० । ३ पशुक्षेत्राणि । ४ अर्धपक्कधान्यकणान् इति प्रतिभाति । ५ 'तडफडती' इति भाषायाम् । ६ 'छुटे डे' इति भाषायाम् ।