SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये तैस्तत्र । वाचिता नन्नसूरि-गोविन्दाचार्यधा- 'स्वस्ति श्री'मोढेरे' परमगुरुश्रीननसूरि-श्रीगोविन्दसूरिपादान् सगच्छान् 'गोपगिरि दुर्गात् श्रीभोजः परमजैनो विज्ञपयति यथा- इह तावत् प्रज्ञागङ्गाहिमाद्रयः समाचारनारीसौभाग्यवर्धनमकरध्वजाः क्षिप्तिपतिसदःकुमुदिनश्चेितदीधितयो भारतीधर्मपुत्राः श्रीबप्पभडि- ५ सूरयस्त्रिदिवलोकलोचनलेझललितपुण्यलावण्यतामादधिरे । तत्स्थाने सम्प्रति दीर्घायुषो यूयं स्थः । 'दृष्टविज्ञप्तिकाप्रमाणेनात्र पादोऽयधार्यः' । तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससद्धाः सुतरां जद्दषुः । सवानुमत्या गोविन्दाचार्य 'मोढेरके' मुक्त्वा श्रीनन्नसूरयो 'गोपगिरि'मसरन् । भोजः पादचारेण ससैन्यः सम्मुखमायातः । गुरोः १. पादोदकं पपौ । उल्लसत्तृष्णो गिरं शुश्राप । स्थानस्थानमिलितजनहृदयसवाचूंरिसहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽऽज्ञामयो बभूव । तद्भक्तानात्मवद् ददर्श । तदभक्तान् विषवदीक्षाश्चके । तदुपदेशाजिनमण्डितां मेदिनीं विदधौ । दुन्दुकस्य ताहम् मरणं १५ स्मृत्वा कुपथेषु न रेमे । 'मथुरा'-'शत्रुञ्जया' दिषु यात्रां चकार । एकादश व्रतानुच्चचार । पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं 'गोपगिरौ' भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् ॥ ॥ इति 'श्रीबप्पभड्विचरित्रम् । ग्रन्थानं ६०० ।। - १ ग--हेमा.' । ९ क-'दृष्टविज्ञप्तिप्रमाणेन' । ३ ख-'हरितहार.'। ४ घ'यात्राकार' । ५ घ-भट्टिमरिचरित्रप्रबन्धः' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy