________________
चतुर्विशतिप्रबन्धे [ ९ श्रीनप्पभष्टिसूरिमस्मदुपरोधसङ्कटे पस्तिः पितुः पार्श्व गतः सन् नियंत इति कृपा दध्रुः । तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापि न पीज्यते । पितुरन्तिकं नागादसौ।
एकदा मालिकः कोऽपि पूर्वमामराजभृत्यो विदेशं 'भ्रमित्वा भोजान्तिकमागतः 'पाटलीपुरे' । तेनोक्तम्- देव ! त्वं मत्स्वामिकुलदीपः । मया विदेशे सद्गुरोर्मुखाद् विद्यैका लब्धा 'मातुलिङ्गी' नाम ययाऽभिमन्त्रितेन मातुलिङ्गेन हताः करि-हरिप्राया अपि बलिनो नियन्ते, मानवानां तु का कथा ?। देव! गृहाण
ताम् । भोजेन सा तस्मादात्ता । प्रमाणिता । सल्या । मालिको १० दान-मानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्या
शक्ति प्रकाश्य तोषिताः । ते ऊचुः- यदीयं ते शक्तिस्तदा प्राभूतमिषेण मातुलिङ्गानि गृहीत्वाऽस्माभिः सह पितुः समीपं व्रज । पितरं निपाल्म राज्यं गृहाण । तद् रुरुचे भोजाय । चलितो बहुमातुलिङ्गशोभी सन् गतः पितुरि कथापितं च--- तात! त्वं पूज्योऽहं शिशुः ; स्वत्तो मरणं वा राज्यं वा सर्व रम्यं मे । राजा सन्तुष्ट :--अहो विनीतसुतः । आयातु । इति विमृश्य आहूतो भोजा। शोधितो मध्यमागतः । एकासनस्थौ कण्टिका-राजानी पृथक् पृथग् मातुलिङ्गेन जघान । सम्यविद्या हि नान्यथा । उपविष्टो
दुन्दुकराज्ये भोजः । तन्मातुला अतुलं तोषं दधुः । माता पद्मा २० प्रससाद । दुन्दुकेन धनहरण-ग्रासोद्दालनादिदूनचरा 'राज
न्यकाः पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव । वर्णाः सधै उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोर्बलात् परिच्छदबलाच जगजिगाय | अथ कृतज्ञतया 'मोढेर'पुरे नन्नसूरये विज्ञप्तिं दत्त्वा उत्तमनरान् प्रेषीत् । ते गतास्तत्र । विज्ञप्तिर्दर्शिता
१५
१ घ--'मृतेति' । २ 'माळी' इति भाषायाम् । ३ ग 'भ्रान्त्वा' ४ ग-'प्रदीपः'। ५ 'अर-सिंह०', ६ ख-कण्टीराजा । ७ घ- 'धनहरणेन प्रासाः । ८ घ-- 'राजकन्यकाः ।