SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः "] प्रबन्ध कोशेत्यपराये श्रावकाः समाकारिताः, छारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । तथाऽऽचरितं तैः । अद्यापि दृश्यते स तत्र । राणकैर्व्रतमत्तम् । नन्द्यामेव षड्विकृतिनियमः, एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात् सूरिपदं जातम् । श्रीयशोभद्रसूरिरिति नाम । तदीयपट्टे प्रद्युम्न सूरिर्ग्रन्थकारः । तत्पट्टे श्रीगुणसेनसूरिः । श्रीयशोभद्रसूरिपादास्त्रयोपवासा 'रक्ते' नेमिनाथदृष्टौ कृताननाः खर्लोकमैयरुः । गुणसेन सूरिपट्टे श्रीदेवचन्द्रसूरयः 'ठाणांगवृत्ति - शान्तिनाथचरितादिमहाशास्त्रकरण निर्व्यूढप्रज्ञाप्राग्भाराः । ते विहरन्तो 'बैन्धुक्क' पुरं 'गुर्जर 'धरा' सुराष्ट्रा' सन्धिस्थं गताः । तत्र देशनाविस्तरः | १० एकदा नेमिनागनामा श्रावकः समुत्थाय श्रीदेवचन्द्रसूरीन् जगौ — भगवन्! अयं 'मोढ' ज्ञातीयो मद् भगिनीपाहिणिकुक्षिभूः ठक्कुरचाचिगनन्दनश्च (श्वा) ङ्गदेवनामा भगवतां देशनां श्रुत्वा प्रबुद्धो दीक्षां याचते । अस्मिश्व गर्भस्थे मम भगिन्या सहकारतरुः स्वमे दृष्टः । स च स्थानान्तरे उप्तस्तत्र महती १५ फलस्फातिमायाति स्म । गुरव आहुः - स्थानान्तरगतस्यास्य बालस्य महिमा प्रैधिष्यते । महत् पात्रमसौ योग्यः सुलक्षणो दीक्षणीयः, केवळं पित्रोरनुज्ञा ग्राह्या । गतौ मातुल भागिनेयौ पाहिणि चाचिगान्तिकम् । उक्ता व्रतवासना | कृतस्ताभ्यां प्रतिषेधः करुणवचनशतैः । चाङ्गदेवो दीक्षां ललौ । स हेमसूरिः प्रभुः । तेन १५ यथा श्री सिद्धराजो रञ्जितः, व्याकरणं कृतम्, वादिनो जितास्तथा च कुमारपालेन सह प्रतिपन्नम् । कुमारपालोऽपि यथा पञ्चाशद्वर्षदेशीयो राज्ये निषण्णः । यथा श्रीहेमसूरयो गुरुत्वेन प्रतिपन्नाः । तैरपि यथा देवबोधिः प्रतिपक्षः पराकृतः । राजा सम्यक्त्वं ग्राहितः तः श्रावकः कृतः । निर्वाराधनं (?) च मुमोच सः । तत् २० १ क घ - 'मादत्तम्' । २ जैनानां तृतीयमङ्गम् । ३ क ' धुन्धुकू', ख-धुन्धूक०' । ४ घ - 'मातु रु] भायौ' । शि० १३
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy