________________
सिद्धान्तलक्षणतत्वालोकः ।
शधूमत्वविशेष्यत्वाभिन्नप्रकारतायां निरवच्छित्वोपादाना देव तद्वार णात् उक्तज्ञानीयप्रकारतायाः सामानाधिकरण्याबच्छिन्नत्वात् ताद्वशसामानाधिकरण्यवद्धूमवान् पर्वतइतिज्ञाने च तादृशविशेष्यत्वाभि नायाः धर्मितावच्छेदकतात्मकधूमत्वप्रकारताया एव निरवच्छिन्नत्वात् अतएव तादृशसामानाधिकरण्यप्रकारतानिरूपित धूमत्वावच्छि नविशेष्यत्वाभिन्न प्रकारताकज्ञानत्वेन कारणत्वा न्नचेत्यादिनोका दभेदस्य गौरवाभावस्य चो तकारणत्वेसिद्धिः तस्य सामानाधिकरण्यसम्बन्धावच्छिन्नसामानाधिकरण्यत्वावच्छिन्न प्रकरतानिरूपित निरव च्छिन्नधूमत्वनिष्टप्रकारतानिरुपितधूमनिष्ठप्रकारतानिरूपित पर्वतत्यावच्छिन्नविशेष्यतशालिनिश्चयत्येनकारणत्वएव पर्यवसानात्
एवंच
परामर्षीयजनकतानिरूपित पक्षविशेष्यत्वनिष्ठावच्छेदकतानिरूपित प्र
कारत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतावत्वकारताश्रयत्वरूपव्याप्तित्वस्य धूमांशे सामानाधिकरण्यस्य प्रकारत्वेपि धूमत्व एव सस्वेन नव्याप्तेरैक्यहानिः नचसामानाधिकरण्यस्य धूमेभासमानस्यैव धूमस्त्रेभासमानतया सामान्यप्रत्वासत्यभावे पक्षीयधूमे तद्भानानुपपत्तिः धूमत्वस्य व्याप्तित्वं च तत्पक्षएवेतिवाच्यं सामान्यप्रत्यासत्तिम्बिनापि व्याप्ते लौकिकसन्निकर्षादिग्राहत्वसंभवे लाघवएव चतात्पर्या न्मूलस्य नन्वेवंस्मृतस्येत्यादिग्रन्थस्थ सामान्य प्रत्यासत्यनङ्गीकर्तृमीमांसकमतावलम्वित्वा दितिव्याख्यां च कुर्वन्ति तदपरेनमन्यन्ते तथाच तामुपादायैवेत्याद्यग्रिमग्रन्थपर्यालोचनया पूर्वापर मूलपर्यालोचनया चैकैवहीत्यादिमूलस्य सामान्यप्रत्यासत्यभावपक्षीयत्वावधारणात् सामान्यलक्षणाग्रन्थे तद्व्यवस्थापनस्य सामानाधिरण्यव्याप्तिपक्षीयत्वप्रतिपादनाश्च सन्दर्भविरोधापत्तेरिति ।
"मन्तव्यमिति” चिन्तनीयमित्यर्थः अत्र हेतुतावच्छेदकस्य तानशस्यव्याप्तित्व स्वीकारस्य सामान्यप्रत्यासत्यभावपक्षीयतया दण्डि - हेतुकस्थले साध्यसमानाधिकरणवृत्तित्वेनसपक्षवृत्तिधर्मदण्डादीनामेव प्राग्गृहीततया स्मृतस्य तस्य पक्षधर्मविशेषणात्वानुपपत्या व्याप्ति ज्ञानानुपपत्तिः स्यादिति दण्डत्वस्यैव हेतुतावच्छेदकत्वं व्याप्तित्वं
स्वीकार्य तथासति रूपत्वव्याप्यजातिमदादिहतुकस्थलेपि तादृशजातित्वस्यैव स्वीकरणीयतयाद्वितीयाया नकुत्रापि नानात्वप्रसंगइति चिन्तावीजम् । ननु भवेदेतदेवं भिन्नत्वमभिन्नत्वं
4
" Aho Shrutgyanam"