________________
८६
सिद्धान्तलक्षणतचालोकः ।
रण्यविशिष्टघूमत्वस्य
स्यापि धूमत्वस्य न धूमत्वत्वेनभान् न्तथाच तादृशसामाना धिकरण्यविशिष्टवद्धूमबान्पर्वतइतिज्ञानस्यैव तादृशसामानाधिकव्याप्तित्वपक्षे कारणत्व मभिमतं नतु तादृशसामानाधिकरण्यविशिष्टधूमत्ववद्धमवानितिज्ञानस्य यतो गौरव मिति भावः स्वरूपतपवे त्यत्रैवकारेण धूमत्वांशेस्वान्त्र्येण सामानाधिकरण्यस्य प्रकारत्वव्यवच्छेदभ्रातिप्रसक्ता स्वारयितु माह नतुधूमत्वत्वेनेति दृश्यतेचेदृशी व्याख्या दीधितावप्य नौपाधिकत्वमात्रव्यवच्छेदाय यद्वक्ष्यतीत्यदौ । केचितु तादृश वह्नित्वावच्छिन्नसमानाधिकरणधूमवान्पर्वत इति ज्ञानकारणत्वाभिप्रायक मुक्तग्रन्थ मिच्छिन्ति तथाच ननुतादृशसामानाधिकर ण्यविशिष्टवद्धूमवानितिपरामर्षस्य विरोधज्ञानाविरोधित्वेन न कारणत्व न्तादृशधूमत्ववद्धूमवानितिज्ञानस्य च धूमत्वत्वविषयकत्वेन गौरवेणैव नतथात्वं तादृशसामानाधिकरण्यवद्धूमवानितिबुद्धेश्व तादृशसामानाधिकरण्यविशिष्टधूमत्वाप्रकारकत्वादेव न तत्त्व मित्याशंकाया माह तत्रचेत्यादि, यथा नीलोघटइतिबुद्धौ घटत्वविशिष्टे नैल्यभानेसा मानाधिकरण्येन घटत्वेपि तस्यभोसमानतया सामानाधिकरण्येन नैल्य प्रकारतानिरूपित विशेष्यत्वाभिश्न घटत्वनिष्ठप्रकारताकत्वरूपं नीलघटत्वप्रकारकत्वंतस्यास्तथा तादृशसामानाधिकरण्यवद्धूमवानिति
ज्ञानेपि धूमत्वविशिष्टेतोद्गशसामानाधिकरण्यभाने सामानाधिकरण्येन तत्रापि तस्य भासमानतया सामानाधिकरण्येन तादृशसामानाधिकरurप्रकारतानिरूपितधूमत्वनिष्ठविशेष्यत्वाभिन्नधूमत्वनिष्ठप्रकारतानिरूपकत्वरूपतादृशसामानाधिकरण्यविशिधूमत्वप्रकारकत्वमव्याहतम् अनन्तराभासमानै कज्ञानीयपारतन्त्रीय स्वातन्त्रीयविषयत्वयोरप्यभेदस्वीकारात् यथाच नीलोघटइतिबुद्धौ : तादृशप्रकारता न घटत्वत्वावच्छिन्ना तथो क्तधूमत्वज्ञानेपिधूमत्वप्रकारतानधूमत्वत्वावच्छिन्नेतिनगौरवम् एवंच कारणता च सामाधिकरण्यनिष्टस्वरूपसम्वन्धावच्छि नप्रकारतानिरूपित विशेष्यतानिरूपितावच्छेदकत्वाभिन्न निरवच्छि न तादृशधूमत्वविशेष्यत्वाभिन्न प्रकारता निरुपितविशेष्यत्वाभिन्नप्रका रतानिरूपित पर्वतत्वावच्छिन्नविशेष्यताकनिश्चयत्वेन प्रथभिन्नत्वोपादानं तादृशसामानाधिकरण्यमात्रप्रकारेण धूमत्वप्रकारकज्ञानस्य कारणतावारणाय वस्तुतस्त्व वच्छेदकत्वाभिन्नेत्यन्तं नोपादेय तादू
"Aho Shrutgyanam"