________________
सिद्धान्तलक्षणस्यालोकः ।
अ यदि नानात्वैकत्वरूपेस्यातां किन्तु भेदतदभावरूपे भेड़ श्वानुमितिजनकतावच्छेदक प्रतियोगिकः सचानुमितिजनकतावच्छे. दकादितिपूरणाल्लभ्यइति नासङ्गतिरित्याह केचिदित्यन्तेन अपिना स्वरसाभिव्यक्तिः सच सामान्य प्रत्यासत्यभावे दर्ज्ञेयताया स्थलविशेष उभयोरपितुल्यत्वेनैकस्य जनकतावच्छेदकत्वमन्यस्यातथात्वमित्य भ्युपगमइति । ननु प्रथमोपात्तत्वात् प्रतियोग्यसमानाधिकरणत्वविशेषणस्थ हेतुसामानाधिकरण्यघटक यद्रपविशिष्टत्यव्यावृत्यभिधानानन्तर्भावाभिधान मनुचित मिति चे न सूचीकटाहन्यायात यद्रपविशिष्टसामानाधिकरण्यस्य स्वोक्ततया तद्व्यावृत्तिजिज्ञासा: या एव प्रथम मुदितत्वाचेति "भ्रमखण्डनार्थमयमितीति" ननु भ्रमः निरासार्थतायाः पक्षनिर्देशस्यात्र प्राङ्गिराकृततयेदमसङ्गत मिति चे द्भवेदेतदेवं यदि कथामात्रेण तन्निराकृतंस्था किन्तु तत्र पक्षनिर्दे शेपि भ्रमस्या निवार्यतया तात्पर्याद्यबधारणादेव तन्निवृत्तिः स्वीक रणीयेति पक्षनिर्देशम्बिनापि तस्मात्तनिवृत्तिर्भवत्येवातो न तदर्थता प्रकृतेचायंपदोपादाने ऽयंकपिसयोग्ये तदि त्युद्देश्य विधेयभा. वो नसंभवति उद्देश्यतावच्छेदकविधेययोरैक्यात् एतदयंक पिसंयो येत तदपिविधेयांशेऽधिकावहिज्ञानं नसंभवति विधेयवाचकपदपूर्ववर्तिताया उद्देश्यवाचकपदे नियमात् तात्पर्यनिर्णयंविना पौर्वापर्यभेदकल्पनाया अन्याय्यत्वा दय मेत दिति सामानाधिकरण्यासंभवा च्चेति भ्रमनिरासार्थता युज्यतएवेति ।
ሪ።
“अग्रेसमाधास्यमानत्वादिति" लक्षणान्तरतयेतिशेषः इदंचा भा याभावस्यातिरिक्ततामभ्युपत्य तेन विशिष्टसत्ताभाववान् गुणत्वा दित्यत्र साध्याभावस्य विशिष्टसत्तारूपस्य सत्तात्मकतया गुणवृत्तित्वेपि नाव्याप्तिः नवास्वरूपेण वृत्तित्वस्य घटत्वादविरहेण घटत्वाभावसा ध्याके व्यभिचारिण्य तिव्याप्ते विवक्षितु मशक्यतया स्वप्रतियोगिमत्ता ग्रहविरोधिताघटकसम्बन्धेन वृत्तित्वस्य विवक्षणीयतया प्रतियोगिवै. यधिकरण्यघटित कल्पापेक्षया गौरवं यद्यपि विशिष्टसत्ताभावाभावस्वं स्वरूपत्वेपि द्रव्यत्वस्यैबेति तत्राव्याप्तिविरहेपि पूर्वक्षणविशिष्टधूमाभाववान्वह्ने रित्यत्र धूमस्वरूप साध्याभावस्य हेत्वधिकरणवृत्तित्वा दव्याप्तिः गगनाभावस्य कालिकेन यो ऽभाव स्तस्य साध्यताया मामत्वादी साध्याभावस्य गौरवेण जन्यत्वरूपताविरहेण गगनाभावा
"Aho Shrutgyanam"