________________
७२
सिद्धान्तलक्षणतत्त्वालोकः ।
सङ्ग इति सूक्ष्ममीक्षणीयमिति ॥०॥ अथ यद्वत्यभावप्रतियोगितान घच्छेदकं हेतुतावच्छेदकं तस्यैव हेत्वधिकरणरूपत्वम्बाच्यमुक्तोभयाभावापेक्षया लघुत्वात् यत्तिता च स्वप्रतियोगिमत्वग्रहविरो. धितावच्छेदकसम्बन्धेन ग्राह्या तेन कालिकेन धूमाभावस्य पर्वतादिवृत्तित्वेऽपि न क्षतिः गगनाभावभेदादिहेतुकस्थले हेत्वभावस्य गगभानाभावरूपस्य हेत्वधिकरणवृत्तित्वेऽपि गगनाभावभेदाभावत्व स्य तदृत्तितानवच्छेदकतया यत्तितावच्छेदकानुयोगिताविशिष्टप्र. तियोगितानवच्छेदकत्वविक्षायान्न दोषः वैशिष्टमंच स्वनिरूपितत्व स्वनिष्ठानियोगितानिरूपितत्वोभयसम्बन्धेनेति चेन्न वृत्त्यनिया. मकस्य प्रतियोगितानवच्छदकत्वे तन हेतुतायां हेतुतावच्छे. दकसम्बन्धावच्छिन्नप्रतियोगित्वाप्रसिद्धः विवक्षणियं च हेतुतावच्छेदकसम्बन्धावच्छिन्नमेव प्रतियोगित्वं सम्बन्धास्तराव. च्छिन्नहेत्वभावस्य हेत्वधिकरणवृत्तेः पारिभाषिकहेतुतावच्छ. दकसम्बन्धावच्छिन्नत्वं च हेतुतावच्छेदकसम्बन्धावच्छिन्न. प्रतियोगित्वाप्रसिद्धः सम्बम्धान्तरावच्छिन्नहेत्वभावप्रतियोगित्वे च पारिभाकस्य विरहाद्वृत्तिनियामकसम्बन्धेन सद्धती सा. ध्यानधिकरणस्य हेत्वधिकरणत्वापरया विवक्षितुमशक्यम् स्वाश्रयाधिकरणत्वस्य यत्पदार्थविशेवणत्वेऽपि विषयित्त्वादिना वृ. स्यनियामकेन वहिहेतुके महानसीयवह्निविषयकशानस्य हेत्वधिकरणत्वं दुर्वारमेव अथ वृन्यनियामकस्य भेदप्रतियोगितावच्छेदकता. वच्छेदकतायास्सर्वानुमतत्वेन यदृत्तिभेदप्रातयोगितानिरूपितहेतु. तावच्छेदकसम्बन्धावच्छिन्नावच्छेदकतानवच्छेदकत्वमेव विवक्षितमिति चेत् । हेतुप्रतियोगिकस्य हेतुतावच्छेदकसम्बन्धत्वे त्वधिकरणवृत्तितादृशमभेदाप्रसिद्धरव्याप्तिस्तद्वारणाय हेतुतावच्छेदक. सम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वहेतुताब्यापकत्वोभयाभावनिवेशे. न लाघवं किञ्च प्रमेयधूमादिहेतुकस्थले गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वे हदादीनामपि हेत्वधिकरणत्वापत्तिः पारिभाषिका. वच्छेदकत्वविवक्षणे च तत्पर्यालोचनेऽतीव गोरवम् प्रतिभाति अत एव हेतुतावच्छेदकगतरूपे स्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकनिरूपकताकसम्बन्धितावद्वत्तिभेदीयप्रतियोगितानिरूपित-प. रपरावच्छेदकतावत्प्रतियोगितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयो.
"Aho Shrutgyanam"