________________
सिद्धान्तलक्षणतच्यालोकः ।
७३
गितानवच्छेदकत्वं ཐ एय हेत्वधिकरणपदार्थः भेदश्च हेतु तावच्छेदकसम्बन्धावच्छिन्नं-यत्प्रतियोगितावच्छेदकावच्छिन्नसम्ब• न्धित्वं तदवच्छिन्नप्रतियोगिताकः एवंच कपिसंयोगादिहेतुकसद्धेतौ हेत्वभावस्य तद्वद्भेदस्य च साध्याधिकरणवृत्तित्वेऽपि न क्षतिः उक्तसम्बन्धितावद्यक्तिभेदकूटस्यैवात्र प्रवेशात् नच विवयितया प्रमेयवह्निहेतुके सद्धेतौ प्रमेयमहानसीयवह्निविषयकज्ञानस्य हेत्वाकरणत्वप्रसंग ः विषयित्वादीनां वृत्यनियामकत्वेन प्रतियोगितानवच्छेदकतया प्रमेयवह्नित्वावच्छिन्नप्रतियोगित्वाप्रसिद्धिरिति वाच्यम् यत्प्रतियोगितावच्छेदकतावच्छेदकधर्मावच्छिन्न सम्वन्धित्वस्यैव वि. वक्षितत्वात् प्रमेय महानसीयवह्निविषयकज्ञाने विषयितया प्रमेयव. हिमद्भेदस्य सत्त्वेन तस्य हेत्वक्षिकरणत्वासंभवात् प्रतियोगितावच्छेदकतावच्छेदकावच्छिन्नत्वं च पर्याप्तिघटिस्वाच्पमन्यथा महानसीयवह्निविषयकज्ञानस्य वह्निमदभावप्रतियोगितावच्छेदकतावच्छे.
दकवह्नित्वावच्छिन्नमहानसीयवह्निसम्वन्धितावश्वेन वह्निविषयकशा
नस्य च महानसीयवह्निमद्भावप्रतियोगितावच्छेदकतावच्छेदकवह्नित्वावच्छिन्नसम्वन्धितावत्वेन विषयितया वह्निहेतुके महानसीयवह्निहेतुके चाव्याप्त्यापत्तेः पवंच धूमवद्भेदप्रतियोगितावच्छेदकतावच्छेदकावच्छिन्नसम्वन्धित्वाप्रसिद्ध्या यत्प्रतियोगित्वेन तस्यानुपादेयतया धूमहेतुकस्थले हदादीनां हेत्वधिकरणत्ववारणाय स्वावच्छिन्नानुयोगिता पर्याप्तिकावच्छेदककताकसम्वन्धितावत्त्वं स्वाश्रयावच्छिन्नवस्वं वा यत्पदार्थे विशेषणमावश्यकमिति परास्तम् धूमप्रतियोगिकसंयोगेन धूमहेतुकस्थलेऽव्याप्तेः यत्तु हेतुवच्छेदकसम्बन्धावच्छिन्न सम्वन्धित्वी यस्वरूपेण सम्बन्धित्वाभावो निवेश्य इति नोक्तदोषः नच धूमत्वावच्छिन्नविवयित्वादिसम्बन्धावच्छिन्नसम्वन्धित्वस्य प्रसिद्धतया हेतुता वच्छेदकसम्बन्धावच्छिन्नसम्बन्धिताप्रतियोगिक स्वरूपेण तदभावस्य पर्वतादिषु सत्तया धूमवदभावप्रतियोगित्वस्य यत्पदेनोपादेयत्वाद्धूमहेतु हेत्वधिकरणत्वानुपपत्तिरिति वाच्यं हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वस्य पर्याप्तघटितस्य सम्बन्धितायम्बिशेषणत्वादिति त. तुच्छं सम्बधित्वात्यन्तामावनिवेशे कपिसंयोगहेतुकेऽयासेरनिवार्य - त्वादुक्तसम्बन्धित्वस्याप्यव्याप्यवृत्तित्वेन हेतुमति
तदभावस्य
सत्वात्
विवयितात्वकालिकत्वान्यतरसम्बन्धावच्छिन्नवहित्वाव
१०
"Aho Shrutgyanam"