________________
सिद्धान्तलक्षणतच्चालोकः ।
७१
ताप वांहेमान्धूमादित्यत्र हृदस्य हेत्वधिकरणत्ववारणसंभवात् यत्पदार्थे स्वावच्छिन्नानुयोगिताकपर्याप्तिकावछेदकताक निरूपकताधिकरणत्वन्न वाच्यमित्यपि समाहितम् ॥ ० ॥ अथ विशिष्टामावमुपेक्ष्योभयाभावनिवेशनं कथं कृतमिति न वाच्यम् महानसानुयोगिकसंयोगेन धूमहेतुकसद्धेतौ विशिष्टाप्रसिद्ध्याऽव्याप्यापत्तेरिति ननु हेतुतावच्छे दकगतरूपे तादृशयन्निष्टाधिकरणतानिरूपकतावच्छेदकतात्वावच्छि अपर्याप्त्यनुयोगितावच्छेदकत्वाधिकरणतानिरूपकतावच्छेदकतात्वा
वछिन्न पर्याप्त्यनुयोगितानवच्छेदकत्वगत द्वित्वाश्रयाधिकरणत्वं स एव हेत्वधिकरणपदार्थ इत्येव वाच्यं लाघवात् नच विषयितया वह्नयदिहेतुके विषयित्व सम्वन्धावच्छिन्नाधिकरणतावच्छेदतापर्याप्यनुयोगितानवच्छेदकत्वाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् घटत्वarat तत्सौलभ्यात् घटत्वनिष्टानुयोगितावच्छेदकत्वस्य तदेकत्वे तद्यक्तित्वे वा कल्पनीयत्वादन्यथोभयाभाबकल्पेऽपि नित्यज्ञानानुयोगिक विषयितासम्बन्धन घटहेतुके नित्यज्ञाननिष्ठाधिकरणतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगितानवच्छेदकत्वाप्रसिद्ध्याऽव्याप्तिः स्यादिति चेन्नाधिकरणतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वाभावस्य गगनाभावरूपस्थ वह्नित्यगतैकत्वादी द्वित्वेन सत्तया विषयितया वह्निहेतुकसद्धेतो महानसीयवह्निविषकज्ञानस्य हेत्वधिकरणत्वापत्तेः तादृशाबच्छेदकतात्वायचिनाधिकरणत्थतादृशा भावत्वावच्छिन्नाधिकरणत्वगतद्वित्वाश्रया
धिकरणत्वविवक्षणेप्युक्तशेषतादवस्थ्यमेव तादशाधिकरणताया अपि गगनाभावनिष्ठाया अधिकरणात्मकत्वेन गगनाभावात्मकतया द्वित्वेन तदधिकरणताया वहित्वगतैकत्वे सत्वात् उभयाभावनिवेशे च तत्कोटौ तादृशावच्छेदकत्व तादृशावच्छेदकत्वाभावयोस्तत्वनैव प्रवेशेन तयोरधिकरणत्वरूपत्वेन दोषस्य न संभवः उभयाभावस्य गगनाभावादिरूपत्वेप्युभयवति तादृशाभावत्वेन स. स्वायोगाश्च तत्प्रणाल्या अपि न तत्संभव इति । वस्तुतस्तु तादृशद्वयवृवृत्तित्वप्रवेशे घटघटान्यगत्तद्वित्वस्य तादृशोभयवृत्तितया तदाश्रयत्वस्य रूपमात्रे सत्वेन विषयितया वह्नयादिहेतुकस्थले महानसी. यवह्निविषयकज्ञानादेरपि हेत्वधिकरणत्वप्रसङ्ग इति तादृशद्वयमाप्रवृत्तिद्वित्वविवक्षणे च मात्रार्थप्रवेशेनोभयाभावापेक्षया गौरवप्र
" Aho Shrutgyanam"