________________
सिद्धान्तलक्षणतत्वालोकः ।
भवनीया शाब्दात्मिकायां च मतुवर्थे स्वप्रकृत्यर्थतावच्छेदकाशेषधावच्छिन्नत्वस्येव तदितरानवच्छिन्नत्वस्यापि भाननियमोऽलोकार्य इति प्रमात्वमेव संयोगेन धूमवानिति प्रतीतो भव.
मत्वमात्रावच्छिन्नामधिकरणतां साधयिष्यति एवं धूमवानित्याप्तशब्दःकथमकस्मादुक्तशब्दमर्यादामतिपतिष्यति तथा च नापलपितुं शक्यं विवादाध्यासितमधिकरणत्वमिति वाच्यमति. रिक्ताधिकरणताकल्पनागौरवप्रतिपक्षतर्कस्फूर्तिर्विषयितया धूमवस्वप्रतीतिविशेषप्रमात्वापत्तिभिया विषयितादिसम्वन्धस्थले वैमु. ख्यमासादयन्त्यपि संयोगादिस्थले प्रमात्वरीति शब्दमर्यादाञ्च स्ववश एव स्थापयिष्यतीति विषयितासम्वन्धस्थलीयप्रमात्वश. रीरे स्वप्रकारतावच्छेदकमात्रावच्छिन्नाधिकरणत्वस्य प्रवेशेष्यन्यत्र तस्याप्रवेशाद्विषयितास्थले मतुवर्थे स्वप्रकृत्यर्थतावच्छेदक. धर्ममात्रावच्छिन्नत्वमाननियमेऽप्यन्यत्र तदभावाञ्चेति सामान्य. धर्मावच्छिन्नाधिकरणतायाम्मानाभावः नचयमुक्तिस्सिद्यसिद्धिभ्यां पराहता प्रमाणत्वावच्छेदेन स्वतिरिक्तधर्मानवच्छिन्नत्वसम्व. न्धावच्छिन्नधर्मनिष्ठप्रकारतानिरूपिताधिकरणत्वनिष्ठविशेष्यतानिरूपकज्ञानजनकताया:प्रमाजनकताप्रतियोगिकस्वरूपसम्बन्धावच्छि. नाभावे प्रागुक्तविशेष्यतायां प्रमानिरूपितत्वाभावे वा तात्पर्य्यात् परमतप्रसक्तानुवादेन प्रतिषेधत्वाद्धेत्याशयेनाह यद्यपीति इदञ्च प्राचाम्मते नोकमुक्ताधिकरणत्वाभावेऽपि वक्ष्यमाणरीत्या हेत्वधिकरणत्वनिवेशसम्भवेन नोक्तलक्षणे कापि हानिरिति प्रौढिप्रकटनाशयेन वस्तुतस्तु सामान्यधर्मावच्छिन्नाधिकरणताङ्गीकार एव ज्यायान् तथाहि प्रमात्वं हि प्रकारताविशिष्टप्रकारताकज्ञानत्वमेवानुगतं वैशिष्ट्यश्च स्वावच्छेदकाशेषस्वावच्छेदकमात्रावच्छि. नाधिकरणतावनिष्ठविशेष्यताकत्वस्वतादात्म्योभयसम्न्धेन तश्च संयोगन धूमवत्त्वज्ञाने भवद्भुभुत्सितामधिकरणतां साधयदेव भवि. ष्यति अन्यथा विशिष्टसत्त्वसत्त्वयोरनतिरेकादेकविशिष्टसत्त्वनिरू. पिताया अप्यपरविशिष्टसत्त्वनिरूपिततया तया च विशिष्टसत्तावत्त्ववुद्धेः प्रमात्वनियमानिर्वाहादधिकरणतानां भेदायावच्छेदक. भेदकल्पनेऽपि तत्तत्पर्वतीयधूमादेभिन्नमूर्तिकतया तत्तन्निरूपि. तस्वमात्रेण भेदसम्भवात्पर्वतीयधूमत्वावच्छिन्नत्वमपि न स्या
"Aho Shrutgyanam"