________________
सिद्धान्तलक्षणतस्वालोकः ।
जात्यखण्डेोपाध्यतिरिक्ततया नानवच्छिनिरूपकत्वसम्भव इतीयनहि राज्ञामाज्ञा नच निरूपकस्य तत्र स्वरूपतोऽभानान्न तथेति वाच्यं भासमानधर्मस्य निरूपक विशेषणत्वेप्यवच्छेदकत्वे मानाभावात् अथ प्रतियोगिविशेषणतया भासमानतामात्रेण प्रतियोगितावच्छेदकत्ववन्निरूपक नावच्छेदकत्वमपि स्यादेव निरूपकविशेषणतया भासभानतयेति चेडूमोनास्तीतिप्रतीतिवद्धूमवानि - तिप्रतीतिरपि प्रतियोगिविशेषणतया भासमाने धूमत्वमात्रेऽव च्छेदकत्ववत् प्रतियोगिताया निरुपकताया अवच्छेदकत्वं निरूपकविशेषणतयावगाहमाने धूमत्वमात्रे किमिति कल्पयेत् यदि च धूमत्वस्यावच्छेदकत्वे धूमत्वावच्छिन्नप्रतियोगिताकमहानसीयधू
माभावस्य पर्व्वते सत्वेन तत्र धूमो नास्तीति प्रतीतेः प्रमात्ववार णायैव धूमत्वमात्र स्थावच्छेदकत्वकल्पनमिति चेत्तदा तादृशप्रयोजनस्याभावेन धूमत्वादिष्ववच्छेदकत्वकल्पनमपि न स्यात्तस्मादसति बाधके सामान्यतो दृष्टानुसारित्वमेव कल्पनायाम्वाच्यमिति प्रतीतौ विशिष्टसत्तावत्तावगाहिन्यामधिकरणत्वऽवच्छिन्ननिरू पकताकत्वस्य दृष्टत्वेन तत्पर्व्वतीयधूमवानित्यत्रावच्छिन्नाधिकरणत्वावगाहित्ववद्विषयितया धूमवानित्यत्र धूमत्वमात्रावच्छिन्नाधिकरण त्वावगाहित्वस्यापि ष्टष्टतया संयोगेन धूमवानित्यत्र धूमत्वमात्रावच्छि नाधिकरणत्वाविगाहित्वमपि स्यादेव एवं विशिष्टसत्तावानित्ययं शव्दो विशिष्टसत्ता त्वावच्छिन्नाधिकरणताम्बोधयतीतितत्पर्वतीयधूमवा. नित्यपि तत्पर्व्वतीयधूमत्वावच्छिन्नाधिकरणताम्वोधयेदितिवद्विषयितयाधूमवानितिशध्दो धूमत्वमात्रावच्छिन्नामधिकरताम्वोधयतीति संयोगेन धूमवानित्यपि धूमत्वमात्रावच्छिन्नाधिकरणताम्वोधयदेवएवञ्च नाकष्स्मात्प्रमात्वभेदकल्पनाप्रसक्तिर्भवा मतुपस्स्वप्रकृत्यर्थतावच्छेदकमात्रावच्छिन्नाधिकरणत्ववोधकत्वनियमिरूपशब्दमर्या. दाभङ्गप्रसङ्गोऽपि नच प्रकृते गौरवरूपवाधक सद्भावादसति वाधके इत्यनुपपन्नं स्यादिति सामान्यनिदर्शनेन तावदेवकल्पयं गौरवादिकं प्रसज्यत इति तादृशधूमत्वावच्छिन्नत्वे ऽधिकरणता यां स्वीकृतेऽपि नातिरिक्ताधिकरणताप्रसक्तिर्धूमत्वमात्रावच्छिन्नत्वे चातिरिक्ताधिकरणत्वप्रसङ्ग इति गौरवमिति तन्न कल्प्यमिति वाच्यम् अनेकाधिकरणतासु धूमानितिप्रतीतिविषयतासम्बन्धकल्प
यत्र
६४
" Aho Shrutgyanam"