________________
सिद्धान्तलक्षणतत्वालोकः ।
णाय स्ववृतित्वघटकवैशिष्ट्य तया स्वसामानाधिकण्यस्ववृत्तित्व स्वनवच्छेदकानवच्छिन्नत्वस्वावच्छेदकसम्वन्धावच्छिन्नत्वसम्बन्धा. ना प्रवेशः एवं वह्निहेतुके तज्ज्ञानत्वसाध्यके तार्णवह्नित्वावच्छिअनिरूपकत्वनिरूपितां जातिमद्वह्नित्वावच्छिन्ननिरूपकतानिरूपितां जातिमद्धतुके तज्ज्ञानत्वसाध्यके जातिमद्वह्नित्वावच्छिन्ननिरूपक. तानिरूपिताम्वह्निशानत्वसाध्य कवद्भिहेतौ कालिकसम्बन्धावच्छिन्न. वह्नित्वनिष्ठावच्छेदकतानिरुपितसमवायसम्वन्धावच्छिन्नवह्नित्वनिष्ठा. वच्छेदकताकनिरूपकतानिरूपिताञ्चाधिकरणतामादायाव्याप्तिवारणा. योक्तानिरूपितत्वघटकवैशिष्ट्यतया स्वसामानाधिकरण्यस्थानव च्छेदकानवच्छिन्नत्वस्ववृत्तित्वस्वावच्छेदकसम्बन्धावच्छिन्नत्वसम्ब न्धानां प्रवेशः तथा च वह्निमान्धूमादित्यत्रोक्तनिरूपकताकाधिकर. णत्वाप्रसिद्ध्याऽव्याप्तिस्तथा हि धूमवानिति प्रात्यक्षिकप्रतीतेरनियन्त्रितविषयिण्या अधिकरणत्वावगाहित्वेऽपि न तया तादृशा. धिकरणत्वसिद्धिस्तद्विषयकत्वेनानुव्यवसीयमानतायास्सन्दिग्धत्वा. त्तद्विना तस्या अनुपपत्तिविरहाच धूमवान् पञ्चत इत्यनुमिते. नियन्त्रितविषयिण्या अधिकरणत्वावगाहित्वस्यैव विरहात् न तयापि तत्सिद्धिसम्भवः धूमवानिति शाब्दप्रतीतिर्मतुवाधि. करणत्वमवगाहमानाप्यधिकरणत्वे धूमत्वविशिष्टन्निरूपितत्वलसं. गर्गेण भासयन्ती न धूमत्वावच्छिन्ने तत्र प्रमाणम्भवितुमर्हति नच गुणो गुणकर्मान्यत्वविशिष्टसत्तावानित्यस्याप्रामण्याय मतुवर्थाधिकरणत्वे प्रकृत्यर्थभानेऽवच्छिन्नत्वेन प्रकृत्यर्थतावच्छेदकस्यापि तत्र भानमङ्गीकार्यमिति कथं धूमत्वावच्छिन्नाधिकरण. तान्धूमवानित्याप्तशब्दो न साध्यदिति वाच्यं धूमत्वावच्छिन्नाधिकरणतायां हि न नो विशेषः किन्तु तत्पर्वते तत्पीयान्तर. सत्त्वे धूमासत्वे चान्यत्र धूमसद्भावेऽपि च स्वविषयाधिकरणत्वमप्रमापयन्त्या तत्पर्वतीयधूमवानितिप्रतीत्या तन्महानसीयध. मवानित्यादिप्रतीत्या च सिद्धेभ्यस्तत्पर्वतीयधूमत्वाद्यविच्छिन्ना धिकरणत्वेभ्योऽतिरिक्तायां धूमत्वमात्रावच्छिन्नायां नच महानसी. यधूमवानिदं ज्ञानं प्रकारितया धूमवदितिप्रतीतिरप्रमा भवन्ती. नान्तरेण धूमत्वमात्रावच्छिन्नाधिकरणतां स्वधर्मातिरस्करिष्य. तीति प्रमात्वे स्वप्रकारतावच्छेदकमात्रावच्छिन्नाधिकरणतवान्त
"Aho Shrutgyanam"