________________
सिद्धान्तलक्षणतालोकः ।
ख्याध्याप्तिरिति चेदत्र केचित् साध्यतावच्छेदकता विशिष्टावच्छेदकत्वानिरूपितत्वं तदर्थः वैशिष्टयञ्च स्वानवच्छेदकसम्बन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन तथाच घटत्वादिनिष्ठावच्छेदकतायां स्वसामानाधिकरण्यविरहेण विशिष्टत्वविरहाद्वटाभावस्यैव लक्षणघटकत्वाभाव्याप्तिः नच समवायेन धूमत्वविशिष्टत्वे सति कालिकेन धूमत्वविशिष्टस्य साध्यतायां व्यभिचारिण्यतिव्याप्तिः समवायसम्बन्धावच्छिन्नधूमत्वानेष्ठावच्छेकतायाः कालिकसम्ब न्धावच्छिन्नावच्छेदकताविशिष्टत्वादिति वाच्यम् साध्यतानिरूपितावच्छेदकताविशिष्टान्यत्वस्यापि विशिष्टावच्छेदकताविशेषणत्वा
स् वैशिष्ट्यञ्च स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वलामानाधिकरण्योमयसम्बन्धेन समवायसम्वन्धावच्छिन्नावच्छेदकतायां विशिष्टान्यस्वविरहेणातिव्याप्तिविरहात् नचैवमपि प्रमेयत्वावच्छिन्नप्रतियोगिकसमवायेन प्रमेयविशिष्टसाध्यके तादृशावच्छेदकताकप्रतियोगिताकतारशाभावाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् सामानाधिकरण्यविहाय स्वव्यापकत्वस्य संसर्गतया विवक्षित्वादिति वदन्ति परंतु साध्यतावच्छेदकता घटक सम्वन्धातिरिकसम्बन्धावच्छिन्नत्वसाध्यतावच्छेदकनिष्ठत्वोभयाभाववत्त्वं विवक्षणीयम् नच प्रमेयत्वावच्छिन्न प्रतियोगितादात्म्येन प्रमेयविशिष्टसाध्य केऽव्याप्तिरिति बाब्यम् साध्यतावच्छेदकताव्यापकत्वस्योभयाभावघटकतया विव. क्षितत्वात् यत्तु जातिमत्वाज्जातेरित्यत्र विषयितया निखिलजातिविशिष्टाभावमादायाव्याप्तिः साध्यतावच्छेदकताव्यापकत्वविरहेणोभयाभावस्य तदवच्छेदकतायां सत्वादिति ततुच्छं तादृशस्थले दण्ड्यादिसाध्यके दण्डत्वस्येव जातित्वस्यैव साध्यतावकछेदकत्वात् अन्यथा तादात्म्येन जातिमतस्तादात्म्येन साध्य - तायां जातित्वे तादात्म्येन सत्तादिमदभावस्यापि लक्षणघटकतयाऽव्याप्तेर्बुरुद्धरत्वात् विषयितया जातिमतस्साध्यतायान्तज्ज्ञानत्वेऽपि सत्तादिमदभावस्य लक्षणघटकतया अव्याप्तेर शक्य परिहारत्वादिति प्राहुः || अन्येतु साध्यतावच्छेदकव्यापक निष्टत्वघटि तोभयाभावनिवेशमिच्छन्ति तन्नातिरमणीयं महाकालानुयोगिककालिकेन घटत्वविशिष्ठस्य तादात्म्येन साध्यतायां महाकालत्वे धर्म्ममात्रस्यैव साध्यतावच्छेदकता घटकसम्बन्धेन साध्यतावच्छे•
८
" Aho Shrutgyanam"