________________
५६
सिद्धान्तलक्षणतत्वालोकः । गतद्वित्वसंयोगाद्यन्तभावेण द्वित्वत्वसंयोगत्वादीनांपटसमवेतत्ववि शिष्टतया तदवच्छिन्नस्य हेत्वधिकरणे सत्त्वेन कथनुक्ताभावस्य प्रति. योगिवैयधियरण्यामिति वाच्यं यद्धटव्यक्ती पटेन सह संयोगो न जातःपटगतद्वित्वादिकश्च तद्धटव्यक्ताबुक्ताभावस्य प्रतियोगिवैयधिक. रण्यसम्भवात् पटसमवेतत्वपदस्य घटासमवेतत्वार्थकत्वाद्वा सामानाधिकरण्यमेवात्रापि वैशिष्टयमिति ॥ तत्तोपलक्षितदण्डव्यक्तिमात्र. स्यैवेति मात्रपदेन दण्डत्वस्यावच्छेदकत्वव्यवच्छेदः उपलक्षितेत्यन्ते. नतत्तयाः व्यक्तीत्युल्लेखात्तवक्तेः स्वरूपतोऽवच्छेदकत्वपक्षव्यक्तिस्ते. नोक्तग्रन्थस्य नासङ्गतिरन्यथा दण्डत्वस्यातिप्रसङ्गाद्यनापादकत्वविर• हाज्जात्यखण्डोपाध्यतिरिक्तस्य स्वरूपतोवच्छेदकत्वासंभवात्तताया अवच्छेदकत्वम्बाच्यं तथा सति तदवच्छेदकतायां साध्यतावच्छेदकतावच्छेदकेतरानवच्छिन्नत्वविरहादसङ्गतिः स्यादिति ॥ ननु लाध. वात्साक्षात्सम्बन्धेन दण्डत्वस्यावच्छेदकत्वम्बाच्यमित्यतआह हेतुमतीति तथा च व्यभिचारेण लाघवमकिञ्चित्करमितिभावः॥ साध्य. तावच्छेदकताघटकसम्बन्धावच्छिन्नाया इति अथ यद्यपि विषयि. तया रूपत्ववदभावस्य साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्व निवेशेन यथाश्रुतेनैव वारणं सम्भवति तथापि विषयित्वसमवायान्य. तरसम्बन्धेन रूपत्वविशिष्टसाध्यकात्मघटान्यतरत्वे सद्धेतौ समवायेन रूपत्ववदभावस्य विषयितया रूपत्ववदभावस्य च वारणाय साध्यतावच्छेदकतानिरूपितसंसर्गतावच्छेदकधर्मावच्छिन्नसंसर्गताकत्वस्य विषायतात्वसमवायत्यान्यतरवत्संसर्गेण रूपत्ववशिष्ट साध्यके चोक्ताभावद्वयस्य वारणाय साध्यतावच्छेदकतानिरुपित. संसर्गतानिरुपितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्ववादपवृत्तिसंसर्गताकत्वस्य गुणवान्पृथिवीत्वादित्यत्र विषयित्वसमवायोभयसम्बन्धेन गुणत्वविशिष्टाभावमादायाव्याप्तिवारणाय स्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन वृत्ति. त्वस्यावश्यमेव विवक्षा कार्या एकत्वादेःपर्याप्त्यनभ्युपगमपक्षे च साध्यतावच्छेदकतानिरुपितसंसर्गतावच्छेदकतात्वसमनियतसंसगताकत्वम्बिवक्षणीयं सामनयत्यघटकसंसर्गतायास्संसर्गश्च स्वनिरु. पितावच्छेदकतावत्वं तथा च रूपत्वप्रतियोगिकसमवायन रुपत्ववि. शिष्टसाध्यके तादृशावच्छेदकताकप्रतियोगिताकतादृशाभावाप्रसि.
"Aho Shrutgyanam"