________________
सिद्धान्तलक्षणतच्चालोकः ।
५५
ष्ठप्रतियोगिता तग्निरूपकाभावो विवक्षणीय इत्युक्तिरेकत्वादेः पर्याप्त्य नभ्युपगमेन निरस्तापि निरस्ता वेद्येति दिक् ॥ अत एव यत्किश्चित् साध्याधिकरणनिरुपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नवृत्तिताव च्छेदकतानवच्छेदकधर्म्मानवच्छिन्नावच्छेदकत्वानिरूपितत्वादिकमेकलक्षणसम्पादकविशेषणमपि प्रत्युक्तम् ॥ महानसीयवह्निवृत्तिजातीत्यादि वह्निपदमत्र महानसीयपरिचयार्थमेवोक्तन्नत्वभावघटकमप्रयोजकत्वात् तदभावप्रतियोगितायां साध्यतावच्छेदकवा ह्नित्वनिष्ठाव
च्छेदकतानिरुपितत्वसाध्यतावच्छेदकताविशिष्टान्यजातित्वावच्छि नावच्छेदकताकत्वद्वयसत्वेन तस्य तत एव वारणसम्भवाश्च यत्त्वत्र साध्यतावच्छेदकनिष्ठसाक्षादवच्छेदकतानिरूपितत्वमेवोभयाभावघकम्बाव्यमन्यथा नित्यशाटस्य विषयितया तादात्म्यविषयित्वान्यतरसम्बन्धेन वा साध्यतायान्नित्यज्ञानत्वे नित्यज्ञानान्यत्वविशिष्ट. घटाभावमात्रस्य लक्षणघटकतया तत्प्रतियोगितायां साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितस्त्रस्य परम्परया सत्त्वेन तदभावस्य लक्षणाघटकतयाऽव्याप्तेः नच तदुपादानेऽपि भेद विशिष्टघटस्य विषयितया साध्यतायान्नित्यज्ञानत्वे सद्धेतावव्याप्तिः साध्यतावच्छेदकभेदस्य साक्षात्प्रतियोगितावच्छेदकत्वादिति वाच्यं साध्यतावच्छेदकता. व्यापक ावच्छेदकतायास्साक्षाग्निरूपितत्वस्योपादेयत्वात् एतस्य व्यापत्ताच्यकस्थलत्वेऽपि कालो महाकालान्यत्ववान्महाकालवान्वामहाकालत्वादित्यस्याव्यप्यवृत्तिसाध्यकत्वेन महाकालान्यत्वविशिष्ठघटाद्यभावमात्रस्य तत्र लक्षणघटकतया तत्प्रतियोगितायामुभयस्यैव सत्त्वादव्याक्तिवारणायैव साक्षातिरूपितत्वमुपादेयन्तथाचोक्ताभा वस्थले वह्नित्वस्यापरिचायकत्वेऽपि न क्षतिरिति तदेतन्नित्यज्ञानान्यत्वविशिष्टघटाद्यभावस्य नित्यज्ञानादावसत्त्वपक्षे न युज्यत इति परिचायकत्वमेवास्थेयम् ॥ जातिमद्वान् घटत्वादित्यादाविति अत्र समवायेन जातिविशिष्टस्य समवायेन साध्यत्वम्बोध्यं नतु तादात्म्येन तथा सति विशिष्टघटाद्यभावप्रतियोगितायामुभयानवच्छिन्नत्ववि रहाटाभावस्य प्रतियोगिवैयधिकरण्यविरहाद्धदत्व एवानवच्छेदकवसनाव्याप्तिर्भ स्यात् ॥ पटसमवेतत्वविशिष्टेति वैशिष्टयश्च सा. मानाधिकरण्यरूपन्नतुस्वरूपसम्बन्धः तथा सति रूपत्वादीनामनवच्छेदकत्वापातात् नच सामानाधिकरण्यरूपवैशिष्टयोपादाने घटप
"Aho Shrutgyanam"