________________
४८
सिद्धान्तलक्षणतत्वालोकः ।
च्छिन्नलिङ्गतादिकानुमित्यनुपपत्तिर्दोषः तद्रूपविशिष्टस्येत्याधुक्तीचा न्यधमावच्छिन्नलिङ्गतादिकानुमितिजनकतावच्छेदकस्य तद्धर्माव. च्छिन्नसमानधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकतद्धर्मावच्छि सामानाधिकरण्यरूपताविरहान्न परामर्षानुमित्योः कार्यकारणभावे व्यभिचारसम्भव इति भाव इति वदन्ति ॥०॥ सामान्यरूपतालाभा. येति चह्नित्वाश्रयनिखिलव्यक्तिगमकताप्रयोजकतालाभायत्यर्थः यः किश्चिद्ध्यक्तिसामानाधिकरण्ये यावत्प्रतियोगिकत्वविरहाद्यावदि. त्यार्थथाश्रुतार्थकताव्यवच्छेदाय लक्षणयोक्तार्थवोधकत्वंसूचयितुं' लाभायेति ॥०॥ निरवच्छिन्नमेवेति किश्चित्सम्वन्धावच्छिन्नाव. उछेदकत्वानिरूपितमेवेत्यर्थः अवच्छेदकतामात्रस्य सम्वन्धावच्छिा नत्वेन निरवच्छिन्नावच्छेदकत्वाप्रसिद्धेस्सम्वन्धावच्छिन्नेति ॥ ननु विशिष्टसाध्यतावच्छेदकस्थलेऽवच्छेदकतायान्निरवच्छिन्नत्वविवक्षया पटसमवेतत्वविशिष्टजातिमदभावमादाय यद्यप्यव्याप्तिवारणं स. म्भवति तथापि दण्डिमान्द्रव्यत्वादित्यत्र दण्डस्य निरवच्छिन्नावच्छे. दकताविरहेणातिव्याप्तिस्स्यदित्यत आह येन रूपणेत्यादि साध्यता. वच्छेदानिष्ठावच्छेदकतावच्छेदकताविशिष्टान्यावच्छेदकतानिरूपित. त्वसाध्यतावच्छेदकतावच्छेदकानिष्ठावच्छेदकतानिरूपितत्वोभयाभाववदित्यर्थः विशिष्ट्यश्च प्राग्वत् एवंच प्रमेयस्य साध्यता. वच्छेदकतावच्छेदकत्वे तदितराप्रसिद्धावपि न क्षतिः अत्रो. भयानवच्छिन्नति सम्पातायातमुक्तविशिष्टान्यावच्छेदकत्वानिल. पितत्वमात्रम्विवक्षितं लाघवात्कथमन्यथा जातिमद्वान्घटत्वादि. त्यत्राव्याप्तिवारणायोक्तविशेषणमुपादीयेत पटसमवेतत्वविशिष्टवदभावमादायाच्यातेस्तदवस्थानात् कथम्वा तव्यक्तिमदभा. वन्तत्ताविशिष्टदण्डत्वविशिष्टवदभावश्चादाय दण्डिमान्दण्डिसंयो. गादित्यत्राव्याप्तिसद्भावे तत्राव्यापत्यभावप्रतिपादकं यदिचेत्या. दिकमन्यथोच्येत यत्तु वह्नित्वविशिष्टस्य विषयितया साध्यतायान्त. ज्ज्ञानत्वे सद्धेतौ वह्नयभावमादायाव्याप्तिरत उभयानवच्छिन्नत्वमेव विवक्षितन्तथासति ताशावच्छेदकतायां सावच्छिन्नत्वविशेषणेन वह्यभाववारणनच साध्यतावच्छेदकतावच्छेदकेतरानवच्छिनाव. घच्छेदकतायां सावच्छिन्नवम्विवक्षितुं शक्यं वह्निप्वाश्रयवान् धू. मादित्यत्र प्रतियोगिव्याधिकरणहतुसमानाधिकरणाभावीयप्रतियोगिः
"Aho Shrutgyanam"