________________
सिद्धान्तलक्षण चालोकः ।
कताकत्वसाध्याधिकरणयत्किवियक्तिनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नसम्बन्धितावच्छेदकताविशिष्टान्यावच्छेदकतावत्वोभयाभाववत्वमेव प्रतियोगिताविशेषणं वक्तव्यम् वैशिष्टयश्च प्रागुक्त. त्रितयसम्बन्धेन ताशावच्छेदकतावत्ता च निरूपितत्वसम्बन्धेन तथा च वह्निमान्धूमादित्यादौ न महानसीयवह्नभावमादायाव्याप्तिः नवा वह्नित्वविशिष्ट साध्यकतज्ज्ञानत्वे वह्नयभावं वह्निलाध्यकतज्ज्ञानत्वे च बह्निमदभावमादायाव्याप्तिः नापि च विषयितया रूपत्ववदभावमादायायेतितत्तोषवारकविशेषणानि नोपादेयानि यद्वोक्तदोपाणां वारणाय यत्किञ्चित्साध्यतावच्छेदकताव्यापकावच्छदेकताव. स्वसाध्यतावच्छेदकताविशिष्टान्यावच्छेदकताकत्वोभयाभाव एवोपादेयः वैशिष्ठयञ्च प्रागुक्तत्रितयसम्बन्धेन अत्रोभयत्र व्यापकत्वप्रवेशः प्रमेयवद्वान्वाच्यत्वादित्यत्र तथाविधाभावीयतादृशप्रतियोगिताप्रसिध्यर्थः अवच्छेदकताकत्वम्विहायावच्छेदकतावत्वोपादानाद्विषीयतया रूपत्ववदभावीयप्रतियोगितायामवच्छेदकताद्वयनिरूपितत्वविरहेऽपि न क्षतिः यत्किञ्जित्वनिवेशाच महानसीयवहिघटोभयाभावीयप्रतियोगितानिरूपितवह्नित्वनिष्टावच्छेदकतादेस्साध्यतावच्छेदकता व्यापकत्वविरहेऽपि महानसीयवहिसाध्यकसद्धेतौ नाव्याप्तिरिति ॥ अथ महानसीयवह्निमान्तज्ज्ञानत्वादिन्यत्र महानसीयाभाववह्नयभावप्रतियोगित्वयोस्साध्यतावच्छेदकतदितरोभयानवच्छिन्नन्वेनाव्याप्तिः के. चिदत्र साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपऱ्यात्त्यनुयोनवच्छेदकयत्किञ्चिद्धत्वधिकरणनिरूपितवृत्तितावच्छेदकताप्रत्तियो गिकपर्याप्त्यनुयोगितावच्छेदकरूपावृत्तित्वं प्रतियोगितायाम्विशेषणान्तरम्प्रवेश्यन्तथाच वह्नित्वगतैकत्वमहानसीयत्वगतैकत्वयोरुक्तमहानसीयवह्नित्वावच्छिन्नवृत्तितावच्छेदकताप्रतियोगिकपर्याप्त्यनुः योगितावच्छेदकत्वान्नाव्याप्तिः नच यत्किञ्चित्वन्न निवेशनीयमिः ति वाच्यम् तादात्म्येन प्रमेयविषिष्टस्य साध्यतायाम्वाच्यत्वघ. टत्वगतैकत्वादीनान्ताहशानवच्छेदकत्वावच्छेदकत्वोभयवत्वेन घटा. धभावानांलक्षणाघटकत्वात् द्वित्वस्य तादात्म्यसम्वन्धावाच्छभवृत्तितावच्छेदकत्वविरहेपि तदवच्छिन्नाभावप्रतियोगित्वे निरुतोभयानवच्छिन्नत्वस्य तदवच्छेदकतायाम्बावक्ष्यमाणसाध्यताव. च्छेदकेतरानवच्छिन्नत्वस्यासत्वेन तदभावानां च लक्षणाघटक.
"Aho Shrutgyanam"