________________
सिद्धान्तलक्षणतत्वालोकः ।
३५
नभ्युपगमपक्ष एवोक्तविशेषणस्यादरणीयतया स्वसाजात्य स्वसामानाधिकण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वैतच्चितयसम्बन्धेन वैशिष्टयघटितस्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वा निरूपितत्वतत्स
म्बन्धावच्छिन्नस्ववृत्तित्वस्वावच्छेदकसम्बन्धावच्छिनत्वैतत्रितयस
म्बन्धेन साध्यतात्रिशिष्टनिरूप कताकाधिकरणत्वस्यैव साध्यतावच्छेदकावच्छिन्नाधिकरणतात्मकत्वम्वक्तव्यन्तथा सति किं लाघवम् नचोकसम्बन्धैः प्रतियोगिताविशिष्टनिरुपकताकाधिकरणत्वस्य प्रतियोगिवैयधिकरण्यघटकत्वम्भवत्कल्पेऽपि वक्ष्यमाणमेवेति वाच्यमतिगुरुभूतव्यापकत्वसम्बन्धेन प्रतियोगितावच्छेदकतावृत्यवच्छेदकता कनिरुपकताकाधिकणपरत्वस्याधिकस्य गौरवसम्पादकस्य युष्मत्यक्षे
प्रवेशादित्याहुः तदपि केवल साध्यतावच्छेदकतदितरोभयानवच्छिन्नस्वमात्रनिवेशमालम्व्य परिचिन्तितम्वोध्यम् तत्पक्षे स्थितानां दोषातरबारक विशेषणानामनुसन्धानेऽत्रैव लाघवम्प्रतिभाति ॥ केचित्तु निस्यज्ञानामुयोगिकत्व विशिष्ट महान सीयवह्रित्वावच्छिनप्रतियोगिकस्वाभाववद्विषयितासंबन्धेन घटसाध्यकनित्यज्ञानत्वे प्रतियोगिव्यधिकरपतारशाभावत्वेनाभिमतमहान सीयवह्न्यभावप्रतियोगितावच्छेबकवहित्वावच्छिन्नाधिकरणत्वस्य साध्याऽधिकरणे सत्वेनाऽव्याप्तिरि ति वदन्ति सन्नातिरमणीयमुक्तरूपेण संसर्गताया इदानीमनभ्युपगमात् अन्यथोकसम्बन्धेन षहेस्साध्यतायान्नित्यज्ञानत्वे महानसीय
नाचत्रतियोगितायामुभयाभावविरहेणाव्यातिर्दुरुद्धरा स्यादिति । अथ विशेषरूपेण संसर्गताभ्युपगमस्यापि दृष्टत्वेन तत्पक्षेऽनुपदोक्तस्थळे सिद्धान्ते का गतिरिति चेद्दीधितिका रोकव्यधिकरणधर्म्मावच्छिन्नाभावखण्डनाभासग्रन्थस्थ प्रतियोगितावच्छेदकता पतिनिवेशे एव गदाधरपरिगृहीतस्तद्वारणायालमादरणीयः एतेनोक्तोभयाभावस्य प्रतियोगिताविशेषणस्यैकत्वादेः पर्याप्त्यभ्युपगमान. भ्युपगमोभयपक्षनिर्दुष्टतया पर्य्याप्तिघटितकल्पानुस र णङ्गदाधरभट्टाचाय्र्याणामनुचितमित्यपास्तम् साध्यतावच्छेदकतदितरोययानवडिल्लन्नत्वनिवेशनञ्च शिष्पबुद्धिवैशद्याय, नचैकत्वादेः पर्याप्त्यनभ्युपगमेन यदवच्छेदकत्वविचाररूपग्रन्थे एकत्वादेः पर्याप्त्यनभ्युपगमे त्वाहेत्युक्तन्तस्याभासप्रन्थत्वेन न मतनिर्णायणत्वमितिगृहाणेति• दिक् इदन्तु चिन्त्यते यत्किञ्चित्साध्यतावच्छेदकताव्यापकावच्छेद
" Aho Shrutgyanam"