________________
सिद्धान्तलक्षणतत्त्वालोकः ।
दकत्वं स्याद्विनिगमकाभावात् । साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वस्यैव तथात्वे किं विनगमकमिति चेत्तद्घटकपदार्थोंपस्थितेः क्लृप्तत्वमक्लेशकल्पत्वम्बा प्रकृतानुमितेः पूर्वे प्रकृतानुमितितद्विधेयत्वादेश्वोपस्थिति र्न सर्वेषां क्लृप्ता नाप्यक्लेशेन कल्पनीयेतिगृहाण । एतेन वृत्यनियामकसम्बन्ध साध्यतावच्छेदकव्यभि चारिणि साध्यतावच्छेदकसाध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकाकच्छिन्न सम्बन्धिताश्वान्यतरविशिष्टाभावमादायातिप्रशक्यभावेऽपि न क्षतिः । एवं सामान्यधम्मविच्छिन्नाधिकरणत्वा स्वीकारे साध्यवत्त्वस्य पारिभाषिकस्य वक्तव्यतया लाघवाभावोऽप्यप्र दोषः । विशेषरूपेण संसर्गत्वानभ्युपगमे निवेशासम्भोऽपि चेत्यलपल्लवितेन ॥ * ॥ अत एव परिष्कृतसाध्यतावच्छेदकातिरिक्तधर्म्मानवच्छिन्नप्रतियोगितावच्छेदकत्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगि..
२९
व्यधिकरणहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वनिष्ठप्रतियोगिताकाभावविवक्षापि हेया । अत एव साध्यवद्वृत्त्यभावयत्वयत्किञ्चित्साध्यतावच्छेदकावृत्तित्वोभयाभाववत्त्वम्प्रतियोगिताविशेपणमस्तु प्रतियोगिवैयाधिकरण्यं चात्र प्रतियोगितावच्छेदकसम्बन्धेनैवग्राह्यं नातस्तादात्म्यसमवायानातरसम्बन्धेन वह्निसाध्य कवहित्वेसद्धेतौ साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकाभावस्य प्रतियो गिवैयधिकरण्यविरहेऽप्यव्याप्तिः नच वह्निमतस्तादात्म्येन साध्यतायां धूमे वह्निमद्वह्नघभावमादायाव्याप्तिरिति वाच्यं तादृशोभयाभाववत्प्रतियोगितावच्छेदकत्वाभावस्य स्वघटकप्रतियोगितावृत्त्युभयाभा
वीयप्रतियोगितानिरूपितपरम्परावच्छेदकतावत्साध्यतावच्छेदकावृ
तिप्रतियोगितावच्छेदकत्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकस्य विवक्षितत्वात् । एवं च साध्यतावच्छेदकातिरिक्तवृत्तित्वविवक्षामन्तरेणापि साध्यसाध्यतावच्छेदकोभयाभावप्रयुक्ताव्याप्त्यसम्भवः । साध्यतावच्छेदके सम्बन्धघटके तादृशावच्छेदकतावत्त्वविशेषणात्तादात्म्येन प्रमेयवत्साव्य के नाव्याप्तिरित्यप्यपास्तम् । यत्वत्र धूमविशिष्टधूमस्य साध्यतायाम्व्यभिचारिरिणि साध्याभावप्रतियोगितावच्छेदकत्वाभावस्य केवलान्वयित्वेनातिव्याप्तिरपि दो
इति तन्न विषयितास्वरूपान्यतरसम्बन्धेन प्रागुक्तान्यतरवदभावमादाय वारणसम्भवात् । अतएव साध्यवद्वत्यभावायत्वजगत्रि
"Aho Shrutgyanam"