________________
सिद्धान्तलक्षणतत्वालोकः।
वेन तस्य चासिद्धान्ततया यथाश्रुतेऽपि निर्वाहसम्भवाञ्चेति ॥ * ॥ अथ साध्यवद्वत्त्यभावीयत्वसाध्यतावच्छेदकतात्वानवच्छिन्नत्वोभयाभाव एव प्रतियोगिताविशेषणमस्तु किंप्रकृतोभयाभाचनिवेशनेन एवञ्चावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वं निरवच्छिन्नत्वादिकं च प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं च न निवेश्य प्रयोजनानुपलम्भात् प्रतियोगिवैयधिकरण्यञ्च प्रतियोगितावच्छेदकसम्बन्धेन ग्राह्य नातः कालिकेन महानसीयवह्नयभावमादायाव्याप्तिः नवा स्वरूपाधेयत्वान्यतरसम्बन्धेनवह्निसाध्यकह्नित्वे साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकस्वाभावस्य प्रतियोगिवयाधकरण्यविरहेप्यव्याप्तिः साध्यतावच्छेदकताभेदस्य प्रतियोगिवैयधिकरण्यसम्भवात्ानचावच्छेदकताया अ. वच्छेदकस्वरूपतानये तादात्म्येन प्रमेयविशिष्टस्य तादात्म्येन साध्यतायां घटत्वविशिष्टे घटत्वे वा प्रमेयावच्छिन्नसाध्यतानिरूपितावच्छेदकतात्वे सद्धेतौ साध्यतानिरूपितावच्छेदकत्वाभावस्य प्रति. योगितावच्छेदकसम्बन्धमात्रेणैव स्वप्रतियोग्याधिकरणहेत्वधिकरणत्तित्वादतिव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकतात्वनिष्ठावच्छेदकतायां स्वरूपसम्बन्धावच्छिन्नत्वनिवेशे प्रयोजनविरहेण विष यितया साध्यतावच्छेदकतात्वविशिष्टाभावस्य प्रतियोगिवैयधिकरण्यसम्भवात् । स्ववृत्तिभेदीयघटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटसाध्यकघटत्वहेतावपि साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकत्वाभावस्य प्रतियोगिवैयधिकरण्यविरहेऽपि प्रतियोगितावच्छेदकस्वरूपेण तत्सम्भवः । केचित्त्वत्राभाववान्वाच्यत्वादित्यत्र गुणाभावाभावं गुणाधिकरणत्वात्मकाभावश्चादायाव्याप्त्या स्वरूपसंयोगसमवायैः प्रत्येकं घटत्वाभावस्य कालिकेन योभावस्तस्य स्वरूपेण साध्यतायां वाच्यत्वे व्यभिचारिणि साध्याभावस्य घट. त्वाभावात्मकस्य स्वरूपेणात्मवृत्तित्वादतिव्याप्त्या स्वरूपसमवा. यसंयोगान्यतमेनोक्तसाध्यकात्मत्वे सद्धेतौ साध्यवत्ताबुद्धिविरोधिताघटकेन कालिकेन साध्यवदत्तित्वाप्रसिधा जात्यभावसाध्यक. सद्धती साध्यवनिरूपितवृत्तित्वाप्रसिद्ध्याचाव्याप्त्या साध्यवत्ता बुद्धिविरोधिताघटकसम्बन्धेन च साध्यवत्तित्वस्य विवक्षितुमशक्य. तया स्वप्रतियोगिमत्ताग्रहविरोधिताघटकसम्बन्धेन तद्वाच्यमिति
"Aho Shrutgyanam"