________________
सिद्धान्तलक्षणतालोकः ।
सावच्छिन्नवह्नित्वनिष्ठावच्छेदकतानिरूपितस्वविरहान्नातिव्याप्तिरिति वदन्ति तदसत् गुणत्ववद्वान् वायुत्वादित्यत्र कालिकविशेषेण स्वरू पतो रूपत्वविशिष्टस्य गुणत्ववतोऽभावमादायान्याप्तोरिति ॥ वस्तुतस्तु लाघवेन साध्यतावच्छेदकनिष्टावच्छेदकतानिरुपितत्वसाध्यताव
२४
च्छेदकताविशिष्टान्यावच्छेदकतानिरूपितत्वोभयाभाव एव साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वशब्दार्थो वाच्यः वैशिष्टथंच प्रागुक्तचतुष्टयसम्बन्धेनेति अथ साध्यतावच्छेदकताविशिष्टान्यसमवायनिष्ठावच्छेदकतानिरूपितत्वस्य समवायावच्छिन्नवह्नयभावप्रतियोगितायां सत्त्वेन तस्य लक्षणाघटकतया साध्यतावच्छेदकसम्बन्धावच्छ्रिच्छन्नत्वनिवेशोवक्ष्यमाणोव्यर्थः साध्यतानिरूपिताव
च्छेदकतात्वस्य धर्मनिष्ठसंसर्गनिष्ठावच्छेदकतासाधारणस्य प्रवेशा
त्संसर्गतायान्तादृशावच्छेदकता विशिष्टान्यत्वासम्भवेनातिव्याप्त्यप्रशक्तेर्विवशिष्टान्यावच्छेदकतायां सम्बन्धावच्छिन्नत्वप्रवेशे प्रयोजनाभावात् पवंच स्वावच्छेदकसम्बन्धावच्छिन्नत्वं स्वानवच्छेदकसम्बन्धानवच्छिन्ननत्वरूपं वाच्यमन्यथातिव्याप्तेः नच समवायस्यापि परम्परया साध्यतावच्छेदकत्वमेवेतिवाच्यं महानसीयकालीनवह्निमान् धूमादित्यत्र महानसीयवह्नघमाचमादायाव्याप्तेस्साक्षात्साध्यतानिरूपितत्वस्यैव प्रवेश्यत्वात् नच तत्र कालीनत्वरूपं साध्यताव च्छेदकमनवच्छेदकन्तादृशप्रतियोगिताया इति नाव्याप्तिरिति वाच्यम् घटवृत्तिरूपविशिष्ठस्य संयोगेन साध्यतायान्तद्भूतलत्वे रूपवद्धटवृत्यभावमादायाव्याप्तेः घटवृत्तितात्वेन घटवृत्तितामात्रस्य परम्परावच्छेदकत्वात् । एवञ्च विशिष्टान्यावच्छेदकतानिरूपितत्वमपि साक्षादेव ग्राह्यमन्यथामहानसीयवह्निवृत्तित्वविशिष्टजातिमत्लाध्यकव्यभिचारिण्यतिव्याप्तिरिति चेन संयोगिनः कालिकेन साध्यतायां स्पन्दत्वे सय्योगिन स्सयोगेनाभावमादाया व्याप्तेर्वारणाय साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य निवेश्यत्वात् यत्त्ववच्छेदकभेदेनावच्छेदकताया भेदे सत्वद्रव्यत्वादिनिष्ठावच्छेदकतायाम्बिशिटान्यत्वसम्भवेन महानसीयवह्निवृत्तित्वविशिष्टजातिमद्भावमादायाव्याप्त्यसम्भवानिरवच्छिन्नत्वनिवेशोव्यर्थ इति तत्तुच्छम् महानसीयवृत्तित्वविशिष्टवह्नित्ववदभावमादायाव्या ते दुरुद्धरतया
तनि
वेशावस्यकत्वात् अवच्छेदकतादेरवच्छेदकरुपतायामेव भेदसम्भ
"Aho Shrutgyanam"
-