________________
सिद्धान्तलक्षणतच्चालोकः ।
धूमत्वे
द्विषयितया जातेः साध्यतायां जातिमदभावद्रव्याद्यभावमादायाव्याप्तेश्चेति अथ भवतु प्रतियोगितावच्छेदकत्वाभावनिवेश आवश्यकः परत्वषच्छेदकताया अवच्छेदकतात्वेन प्रवेशो व्यर्थ इति चेन्न प्रमे यत्वे तादृशप्रतियोगितानिरूपिताधेयत्वस्यैव सत्वेन प्रमेयसाध्यकव्यासेरिति ॥ यन्तु तादृशावच्छेदकतात्वावच्छिन्ननिरूपकाभाव एव प्रवे. श्य इति तत्तुच्छम् धूम साध्यकाऽतिव्याप्तेः धूमत्वत्वस्वरूपाभावस्य तादृशावच्छेदकतात्वावच्छिन्नाधेयतानिरूपकत्वेन तस्य सत्त्वात् प्रतियोगितानिरूपितत्वेनाभावप्रवेशोपि प्रमेयत्वावच्छिन्नाधेयत्वस्य प्रतियोगितानिरूपितस्य साध्यतावच्छेदकमात्रे सत्त्वेनातिव्यापत्या हेयः नच प्रतियोगितानिरूपकत्वेनाभावः प्रवेश्य इति वास्यम् प्रतियोगितावच्छेदकत्वयोः परस्परनिरूप्य निरूपक मावेनाव. च्छेदत्व साध्यकव्यभिचारण्यतिप्रसङ्गादिति ॥ यद्यपीत्यादि अत्र सामान्याभावस्य साधयिष्यमाणतया विशेषाभावकूटातिरिक्तसा मान्याभावस्य सिद्धत्वेन महानसीयवह्नद्यभावस्येत्य पहाय महानसीयवह्निर्नास्तीतिप्रतीतिसिद्धस्येत्युक्तम् तथाच सामान्याभावोऽति रिच्यताम्मावोभयथाप्युक्तप्रतीती महानसी वह्निमत्ताबुद्धिविरोधि न्याम्प्रतियाग्यशे भासमानमहानसीयवह्नित्वावच्छिन्नप्रतियोगिताकाभावत्वेनैवाभावस्य भासमानतया तद्विषयाभावस्य हेतुसमानधिकरणस्य प्रतियोगितावच्छेदकतायाः कथञ्चिदपि न वह्नित्वे क्षतिरितिभावः॥ ननु निरवच्छिन्नावच्छेदकतानिरूपितत्वमग्रेोविवक्षणीयन्तदेवसावच्छिन्नावच्छेदकत्वानिरूपितत्वरूपम्बाच्यन्तावतैवाक्ताभावमादा
य न दोषः ॥ सावच्छिन्न साध्यतावच्छेदकस्थलीयलक्षणेऽपि वक्ष्यमाणं साध्यतावच्छेदकतावच्छेदकेतरानवाच्छन्नावच्छे कताकत्वन्ताशावच्छिन्नावच्छेदकत्वानिरूपितत्वात्मकमेव विवक्षणायन्तथाच व द्वित्वाश्रयवान्धूमादित्यत्र नाव्याप्तिः अत एव महानसीयवृत्तित्वविशिष्टजातिमद्वह्नित्ववन्नास्तीतिप्रतीतिकाभावमादाय साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वादिविशेषणसत्त्वेत्यव्याप्तिरिति निरस्तमिति चेन निरवच्छिन्न साध्यतावच्छेदकस्थलीयलक्षणे माहानसीयवह्निमान्धूमादित्यत्रातिंत्र्याप्तेरुक्ता निरूपितत्वस्य विवक्षितुमशक्यत्वात् अत्यन्ताभावस्य त्रितयप्रतियोगित्वमते गोत्ववान् कालत्वादित्यत्र सृष्टिकालवृत्तित्वविशिष्ठघटत्वाद्यभावस्यैव प्रतियोगिव्यधिकर.
3
१७
"Aho Shrutgyanam"