________________
सिद्धान्तलक्षणतत्वालोकः ।
वच्छिन्नावच्छेदकताभिन्नविषयतात्वनिष्टावच्छेदकताभिन्नावच्छदकत्वानिरूपित स्वनिष्ठप्रतियोगिताकपर्याप्त्यनुपोगितावच्छेदकत्वसम्व न्धेन वृत्तित्वस्विवक्षितमिति न दोष इति वाच्यमः महानलीय. त्ववह्नित्वोभयमात्रविय कज्ञानासम्भवात् महानसीयत्वादेर्महानसत्वादेर्वाऽवश्यम्भासनादिति वेदवोधविजृम्भितमेतत् । मुख्यनिवेशे साध्यतावच्छेद
विशेष्यतानिरूपितप्रकारतात्वेनविययतान्निवेश्योक्तरीत्या दोषाभावात्तादृशरूपाविषयकप्रतीतिविषयत्वस्य
कगतरूपे निवेशे दोषाभावाच्येति ॥ अथ प्रतियोगितावच्छेदका वच्छिन्नभेद एवोभयावृत्तिधर्म्मावच्छिन्नाप्रतियोगिकस्सामानाधिकरण्यसम्बन्धेन साध्यतावच्छेदकविशेषणमस्तु नच व्यभिचारिव्यतिव्याप्तिस्तादृशप्रतियोगितावच्छेदकावच्छिन्नत्व समानाधिकरणोभयावृत्तिधर्म्मावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नानुयोगिताकप
१६
यतिक कूटत्त्वावच्छिन्नवस्वस्य विवक्षणादेवञ्च वह्निनिष्ठतद्यक्तित्वावच्छिन्नभेदकूटेन प्रत्येकं सामानाधिकरण्यस्य वह्नित्वे सत्त्वेन नतयक्त्यभावमादायाव्याप्तिर्नापि च महानसीयवह्न्यभावमादाप व क्ष्यमाणाव्वाप्तिरितिकिमिति नञ्व्यत्यासेन व्याख्यानुसरणामितिचेन धूमव्यक्तिभेदकूटेन सामानाधिकरण्यस्य प्रत्येकंधूमत्वे सत्वेन धूमावान्वह्नेोरित्यत्रातिव्याप्तेः सत्तावाञ्जातेरित्यत्र विशिष्टसत्ताभावमादायाव्यतिश्च नच तादृशाभावप्रतियोगितावाच्छेदकतासमानाधिकरणावच्छेदकताकप्रतियोगिताकभेदत्वावच्छिन्नानुयो. गिताक पर्थ्याप्तिप्रतियोगि कूटत्वावच्छिन्न एव निवेश्योधूमभेदस्यापि तादृशकूटान्तर्गतत्वान्नातिव्याप्तिरव्याप्तिवारणाय चात्रापि प्र. तियोगितायास्वक्ष्यमाणोभयाभाववत्वन्निवेश्यमितिवाच्यम् गगनवा. न्तज्ज्ञानत्वादित्यत्र तद्व्यक्त्यभावमादायाव्याप्तेरिति ध्येयम् ॥ यद्यपि प्रतियोगितायाः प्रतियोगितावच्छेदकस्वरूपतया प्रतियोगिताभेद एव सध्यतावच्छेदके निवेशयितुं युक्तस्तथापि प्रतियोगितायाः प्रतियोगितद्भावोभयस्वरूपत्वेऽतिरिक्तत्वे वा व्यभिचारिमात्रोतव्याप्तिः प्रतियोगितावच्छेदकभेदनिवेश एव वारयितुंशक्येति तदुपेक्षा. कृता ॥ यत्तु प्रतियोगितावच्छेदकावच्छिन्नत्वन्तादात्म्येन वाच्यं व्यभिचारिणितु साध्यवदभावमादायैव नदोष इति तत्तुच्छम् अवृत्तेरपेि व्यापकत्वापत्तेः तत्तद्ध्यक्तिमद्भावमादायाव्याप्तस्तादवस्थ्या.
"Aho Shrutgyanam"