________________
सिद्धान्तलक्षणतत्वालोक ।
r
णसंसर्गत्वानभ्युपगमात् । व्यासज्यवृत्यवच्छेदेकत्वपक्षे महाकालाम्यत्वघटत्वोभयवृत्ये कावच्छेदकतायाः सम्बन्धद्वयावच्छिनतया निरूपकत्वे रूपवृत्तित्वासम्भवाश्च साध्यतानिरूपितावच्छेदकताविशि. ष्टान्यावच्छेदकत्वानिरूपितत्वस्यैवविशेषणत्वेच कालिकेनघटत्ववि शिष्टसाध्यक महाकालत्वेऽव्यासिबध्या तत्रतादृशप्रतियोगितावच्छेदकावच्छिन्ननिरूपकतात्वस्य कालिकसम्बन्धावच्छिन्नमहाकाला'न्यत्वनिष्ठावच्छेदकता निरूपितकालिकसम्बन्धावच्छिन्नपटत्वनिष्ठावच्छेदकता निरूपित निरूपकत्वेऽपिसत्वेन तादृशनिरूपकताकाधिकरणतावद्भेदस्य हेत्वधिकरणेविरहादिति ॥ इदन्तुचिन्तनयिम् महाकालान्यत्वविशिष्टघटाभावस्य लक्षणघटकत्व संपत्यर्थमेत्र प्रतियोगितावच्छेदकावच्छिनत्वं प्रतियोगितावच्छेदकता घटकसम्बन्धेनवाच्यं प्रतियोगितावच्छेदकतायाः पारिभाषिकसाध्यतावच्छेदकताघटकसम्बन्धावच्छिनत्वंच निवेशनीयं नचसाध्यतावच्छेदकता घटकसस्बन्धावच्छिन्नत्व मपारिभाषिकं निरूपकतावच्छेदकतायामेवनिवेशनीयं लाघवादितिवाच्यं फलमुखगौरवस्यादोषत्वात् विशेषरूपेणसंसर्ग:वास्वीकारे पारिभाषिकताने घेशे प्रयोजनाभावाच्च वानुपदमेवाविशिष्टसाध्य केऽपिकालोघटवान् महाकालत्वादित्यत्राव्याप्तिवारणार्थमेव गुरुभूतस्य प्रतियोगितावच्छेदकविशिष्टाधिकरपणत्वस्य प्रतियोगिवैयधिकरण्यघटकतया निवेशनंवक्ष्यति नच साध्यतावच्छेदकता घटकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नत्वघटित. - कल्पाभिप्रायेणैवाव्याप्त्यनुधावनमितिवाच्यं तथापिप्रतियोगितावच्छेदकता घटकसम्बन्धेनप्रतियोगितावच्छेदकावच्छिन्नत्वविवक्षयाऽव्याप्तिवारण सम्भवेप्रयासान्तरस्य सन्दर्भविरोधास्कन्दितत्वापतेरित्यलम् ॥
अतप
विशिष्टनिरूपितसमवायानभ्युपगमादिति, तादृशप्रतियोगिताव
च्छेदकताघटकतयेत्यादिः तथाचमहाकालान्यत्वविशिष्टपटाद्यभावप्रतियोगितावच्छेदकंयदि सामानाधिकरण्य घटित सामानाधिकरण्यसम्बन्धेन महाकालान्यत्वविशिष्टपटत्वस्या त्स्यादेव समवायः प्रतियोगितावच्छेदकताघटकः सचविशिष्टनिरूपितएव विशिष्टस्यप्रतियो गितावच्छेदकत्वात् संसर्गताचतस्य विशिष्ट निरूपितसमवायत्वेन समवायत्वमात्रेणवेत्यन्यदेतत् परन्तु विशिष्टस्य प्रतियोगितावच्छे
१६८
" Aho Shrutgyanam"