________________
५४
25
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीतें
[६.१.७३.] इत्येयणि आदिस्वरवृद्धयादौ पाण्डवेय इति । गङ्गाशब्दश्च शुभ्रादौ तिकादौ च पठ्यतेऽत्र चेति तस्मात् ततः प्रत्ययत्रयं भवतीति गङ्गाया अपत्यमित्यर्थेऽनेनाणि गाङ्ग इति । शुभ्रादित्वादेयणि गाङ्गेय इति, 5 “तिकादेरायनिल्” [६.१.१०७.] इत्यायनिमि गाङ्गाय निरिति । विनाशुशब्दः कुञ्जादावपि पठ्यते, इतोह गणे पाठाभावे ततोऽण् न स्यादितीह पाठेन कुञ्जादित्यात् प्राप्तेन "कुञ्जादेर्मायन्यः " [ ६.१.४७.] इति जायन्येन सहास्य समावेशो भवतीति अणि सति वैपाश इति 10 रूपम्, आयन्ये तु वैपाशायन्य इति । तचनशब्दः
|
कुर्वादाविह च पठ्यते इति तस्मादपि अण् प्रकृतिगणे पाठाभावे दुर्लभः विशेषविहितेन “कुर्वादेः” (६.१. १००.] इत्यनेन बाधादितीह पाठात् प्रत्ययद्वयं भवति । तत्राणि सति आदिस्वरवृद्धौ " षादि - हन्- धृतराशेोऽणि” [२. 15 १.११०.] इत्यनोऽस्य लुकि ताण इति । ञ्ये तु "नोऽपदस्य तद्धिते” [७.४.६१.] इत्यन्त्यस्वरादिलुकि प्राप्तायां “अनोऽय्ये ये” ७.४.५१. jइति निषेधे ताक्षण्य इति रूपद्वयम् । यद्यपि तक्षा फारुरपि, तस्माच्च, "सेनान्तकारु०” [६.१.१०२.] इतीमपि प्राप्तस्तथापि तस्य 20 सामान्यविहितत्वेन विशेषविहिताभ्याम् अणू- ज्याभ्यामित्रो
बाघान्न भवति । स हि अन्यस्मिन् कारुवाचके शब्दे चरितार्थः, तक्षन्शब्दस्योभयत्र गणे पाठस्त्वचरितार्थ इति गणपाठसामर्थ्यातौ भवतो नेम् । इमात्रवावेऽणश्वारितायें ज्याचे तस्य सामर्थ्याभावः इति ॥ ६.१.६०. ऋषि-वृष्ण्यन्धककुरुभ्यः ||६|११६१ ||
ऋषयो लौकिका वसिष्ठादयः अपत्य योगात् । वृष्णयः अन्धकाः । कुरवश्च प्रसिद्धा वंशाख्याः क्षत्रियाः । ऋष्यादिवचनेभ्यः शब्दे भ्योऽपत्ये ऽण्प्रत्ययो भवति । इञोऽपवादः । 30 ऋषि-वासिष्ठः । वैश्वामित्रः । गौतमः । वृष्णिवासुदेवः । अनिरुद्धः । वात्रः । प्रातिवाहनः । औदारः । अन्धक-श्वाफल्कः । रान्द्रसः। चैत्रकः । कुरु-नाकुलः । साहदेवः । दौःशासनः । दौर्योधनः ।
1
35
अत्र्यादिभ्यस्तु परत्वाद् पयण् ज्येञौ च भवतः । आत्रेयः । जातसेन्यः । जातसेनिः । औप्रसेन्यः । औग्रसेनिः । वैप्वक्सेन्यः । वैष्वक्सेनः । भैमसेभ्यः । भैमसेनिः ।
| पा० १ सू० ६१.
कथं दौर्योधनः ? क्रियाशब्दत्वाद् दुःखेन युध्यत इति । यौधिष्ठिरः, आर्जुनिः इत्यत्र तु 40 बाह्वादित्वाद् इव ॥ ६१ ॥
श० म० न्यासानुसन्धानम् - ऋषि ऋषीणामलौकिकानामपि परिग्रहविमुखानां पुराणादिषु श्रवणात्, तेभ्यश्चापत्यार्थप्रत्ययस्योत्पत्तेरसंभवात् इह ऋषिपदेन के ग्राह्या इत्याशङ्काया निराकरणार्थमाह - ऋवया लौकिका 45 । वसिष्ठादय इति । लोकव्यवहारे साधवो लौकिकाः । । यद्यपि ऋषति गच्छति (ज्ञानद्वारा ) संसारपारमिति 'ऋषयः संयतात्मानः' इति मनूक्तया च ऋषिपदस्य क्रियाप्रवृत्तिनिमित्तकत्वेनानियतत्व तथापि लोके मन्त्रद्रष्ट्रत्वेन प्रसिद्धा एवेह ऋषिपदेन गृह्यन्ते इति बोधनायैव वसिष्ठादय 50 इति नामनिर्देशः । आदिशब्दः प्रकारे । वसिष्ठसदृशा मन्त्रद्रष्टत्वेन प्रसिद्धा अन्येऽपि ऋषिपदेन ग्राह्या इत्यर्थ:तत्र हेतुमाह- अपत्ययोगादिति । श्रूयते हि तेषामपत्याथेन योग: सम्बन्धः, नान्येषां सनत्कुमारादीनामूर्ध्वरेतसाम्, अतश्च नेह सूत्रे तेषां ग्रहणम् ।
55
अन्धकशब्दस्यैकस्मिन् दैत्यविशेषे ऋषिविशेषे, वंशविशेषे च प्रसिद्धत्वात् त्रृष्णिशब्दस्य यदुवंशीयराजविशेषे श्रीकृष्णे मेघादिषु च प्रसिद्धि:, एवं कुरुशब्दस्यापि राजविशेषे, वंशविशेषे, देशविशेषे, तण्डुले, वनस्पतिविशेषे च प्रसिद्धत्वात् इह किमर्थकानां तेषां ग्रहणमिति जिज्ञा- 60 सायामाह-प्रसिद्धाः वंशाख्याः क्षत्रिया इति । पुराणादिभिर्लोके ख्याताः प्रसिद्धाः वंशमाख्यायते यैरिति, यद्वा वंशनिमित्ता आख्या येषां ते वंशाख्याः । तथा च सूत्रा र्थमाह-ऋष्यादिवचनेभ्य इति । ननु “ङसोऽपत्ये " [६.१.२८.] इत्यणू सिद्ध एवेति किमर्थमेभ्यो विशिष्य- 65 विधानमिति चेदाह - इञोऽपवाद इति । येऽत्रादन्तास्तेभ्योऽगं प्रबाध्य “अत इन्” [६.१.३१.] इति प्राप्तस्येत्रो बाधनार्थोऽयमारम्भ इति भावः । वाह्वादिपाठनिमित्तकस्त्विम् युधिष्ठिरादिभ्यः स्यादेवेत्यमे वक्ष्यते । अन्येभ्यः कतिपयेभ्यो विशिष्य विहितास्ते ते प्रत्ययाः स्युरेवेति यथा - 70 यथमत्रे स्फोरयिष्यति । स्यादेतत्-शब्दा अनादय इति प्रायः सर्वेषामपि शाब्दिकानां मतम्, ततश्चानादीनामन्धकादिशब्दानां कथं तत्तन्नामकवंशरूपार्थाश्रयणेन प्रवृत्तिर्युज्यते तेषामर्वाक् कालिकत्वादिति चेदुच्यते-अनादय एवेमे शब्दाः कथमपि —*काकतालीय* न्यायेन अबुद्धिपूर्वकमिति - 75 यावत् कुर्यादिवंशेषु प्रसिद्धाः, ततश्च तत्तद्वंशीयत्वेन ख्यातेषु नकुल सहदेवादिष्वपि समुचिताः । तानेव लोकप्रसिद्धाना
"Aho Shrutgyanam"