________________
श्री सिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
[ पा० १ ० १५.
पदेति । बृहतां पतिः बृहस्पतिः प्रजानां पतिः प्रजापतिः, तयोरपत्यार्थे त्र्ये आदिस्वरवृद्धी, इफारलेोपे च वार्हस्पत्य प्राजापत्य इति । एवं देवतार्थेऽपि श्रेयम् । एष्वणपवादबाधनं व्याचष्टे -- अत्र परत्वाद "अत इञ् " [६.१.३१.] 5 इतीञ् स्यादिति । आदित्यशब्दाद् यमशब्दाच्चापत्ये
|
sणपवाद इञ्प्राप्तः । तं याधित्वा ज्य एवेति भावः । यद्यपि आदिस्यशब्दात् "अवृद्धाद दोर्नवा" [६.१.११०.] इति आयनिः प्राप्नोति तथापि तस्य वैकल्पिकरवेन पक्षे “ अत इञ् " [३.१.३१.] इत्यस्यागि प्राप्तिररस्त्येवेति 10 तमुक्तावकाशाभावात् तस्यैवाणपवादस्वकथनमुचितम् । एवं समूहार्थेऽपि अणपवादत्वकथनमुचितम् । एवं समूहार्थेऽपि अणपवादवाधनमुदाहरति- वनस्पतीनां समूह वानस्पत्यमिति । वनस्य पतिरिव वनस्पतिः पुष्पं विना फलयुक्तो वृक्षः तेषां समूह इत्यर्थे प्राग्जितीयाणोऽपवादः 15 " कयचि - हस्त्यचित्ता ०" [६.२.१४.] इतीकणू प्राप्नोति
तद्विषयेऽनेन सूत्रेण ज्ये आदिस्वरवृद्धयादौ वानस्पत्यमिति । तदाह- अप्राश्चित्तलक्षण इकण् स्यादिति । अणपवादग्रहणस्य फलमाह – ज्यो हि प्रागूजितीयमणं बाधित्वेत्यादि । इदमत्राकूतम् - असत्यपि वादग्रहणे अदित्यदित्यादिभ्यः 20 प्रकृतसूत्रोक्तेभ्योऽयमेव ज्या विष्यति भविशेषविहितत्वान्निरवकाशत्वाच्च । तथापि सर्वोऽप्यस्य विषयस्तदर्थेषु येन केनापि सामान्यविहितेन विशेषविहितेन वा प्रत्ययेन व्याप्तः, तथा चायमनग्रकाशः स्यादिति प्राग्जितीयेष्वर्थेषु प्रवर्तेतंवेति अणपवादग्रहणस्यैतत्प्रयोजनम् - यत् प्राग्जितीयेष्वर्थे 25 स्वपवादविषयं परित्यज्य प्राग्जितादित्यनेनाण् विहितः । यत्र चाणोऽपवादः कोऽपि प्रत्ययो नास्ति तत्राणं वाधित्वा ञ्यः सावकाशः । यत्र चास्मात् परेऽणोऽपवादश्च प्रत्ययः प्राप्तः - यथा आदित्यस्यापत्यमित्यर्थे इञ, वनस्पतीनां समूह
इत्यर्थे इकण् इत्यादयः—तत्र परत्वात् त एव स्युरिति 30 तम्मा भूदित्येतदर्थमिहाणपवादग्रहणमावश्यकम् । तथा चाणोऽपवादः सर्वोऽपि प्रत्ययोऽस्य विषय इति सर्वत्रेदमेव प्रवर्तते नान्ये प्रत्यया इत्यस्यापवादग्रहणस्य चारितार्थम् ।
|
नन्वेवं सामान्यत एव सर्वस्यापि अपवादशास्त्रस्य बाघोऽस्तु तथा चाण्ग्रहणमिहानावश्यकमिति शङ्कते - 35 अणग्रहणं किमिति । प्रत्युदाहरणेनोत्तरयति वास्तोष्पत्य भार्य इति । वास्तोधतिर्देवविशेषः, स देवता अस्या इत्यर्थे “द्यावापृथिवी शुनासीरा०" [६.२.१०८] इति ये "अवर्णवर्णस्य” [ ७.४.६८ ] इतीकारलोपे स्त्रियामपि वास्तोष्पत्या, सा भार्या यस्येत्यर्थे वह्नवीहि । भवतीति ॥ ६.१.२५ ।।
समासे "परतः स्त्री पुंवत्" [३.२.४९.] इति पुंवद्- 40 भावस्य “तद्धितः स्ववृद्धिहेतु ० " [३.२.५५. ] इति निषेधो न भवति, इति पुंवद्भावे सति वास्तोष्पत्य भार्यः इति सिद्धयति । असतीहाणग्रहणे एतद्विहितस्य व्यस्थापवादो “द्यावापृथिवी ०" [ ६.२.१०८.] इति योऽप्यनेन बाध्येतेति उये सति, तस्य स्वरवृद्धिहेतुत्वात् "तद्धितः 45 स्वरवृद्धि०” [ ३.२.५५.] इति पुंवद्भावनिषेधे वास्तीयस्या भार्य इति रूपं स्यात् । अणूग्रहणे कृते च अणपवादविषय एवेदं प्रवर्तते, न तु स्वापवादविषय इति वास्तोष्पतिदेवताऽस्या इत्यर्थे न प्रवर्तते तत्र स्वापवादस्य " द्यावापृथिवी ● [६.२.१०८. ] इति यस्य विषयत्वाद् 50 इति भावः । तदेवाह ---असत्यग्रहणे इत्यादि-वृत्तिग्रन्थेन । अनिदमीति पदस्य कृत्यमाह - अनिदमीति किमिति प्रश्नपूर्वकम् । प्रयोजनमाह आदित्यस्येदमिति । अदितेरपत्यमित्यर्थेऽनेन ज्ये आदित्यशब्दो निष्पन्नः ततो इदमर्थे “दोरीयः" [६.३.३२.] इतीये 55 अवर्णलोपे " तद्धितयस्वरेऽनाति” [२.४.१२.] इति यलोपे सति आदितीयमिति भवति । अनिदमीत्यस्याभावे चात्रापि य एव स्यादिति आदित्यमित्येव रूपं स्यात् । अनिदमीति कृते तु इदमर्थेऽस्य प्रवृत्तिरेव न भवतीति न दोषः ।
95
66
न च सिद्धान्तेऽपि -- प्रकृते " गोत्राददण्डमाणव० [६.३.१६९.] इत्यनेनेयापवादोऽकणेव स्यादिति वाच्यम्, ' पुनर्भू - पुत्र - दुहितृ०" [६.१.३९.] इति सूत्रे स्वापत्यसन्तानस्य गोत्रत्वाभावकथनेनादितेरपत्यस्य गोत्रस्याभायात् । पत्युत्तरपदविषयमपि प्रत्युदाहरणमाह उष्ट्रपति- 65 नौम वाहनमित्यादिना । तथा चात्राप्यणपवादमञ याधित्वा त्र्य एव स्यात् तन्मा भूदित्येतदपि अनिदमीत्यस्य प्रयोजनमिति भावः । ज्ये अकारानुवन्धफलमाह
60
33
" Aho Shrutgyanam"
कारस्य वृद्धिः, "ञिदार्षादणिओ:" [६.१. १४०.] इति प्रयोजनमिति । ञकारानुबन्धकरणाद् 70 ञित्वनिबन्धना आदिस्वरवृद्धिः प्रयोजनम्, कि यद्यपि सा णकारानुबन्धेऽपि स्यादेव, तथापि " जिदाद ० " [६.१.१४०. ] इत्यनेन त्र्यन्ताद्युवापत्ये विहितस्य प्रत्ययस्य लुयू भवतीत्यपि प्रयोजनं सिद्धयति, तच्च पिवे न सिद्धयेतेति भावः । तत्फलं व यमस्य वृद्धमपत्यमित्यर्थ - 75 ऽनेन ज्ये याम्य इति रूपम्, ततश्च युवापत्येऽर्थे " इज्" १६.१.३१.] इतीञो लुपि याम्य इत्येव रूपं