________________
कलिकालसर्वज्ञ श्री हेमचन्द्रसूरिभगवत्प्रणीते
३२६
महाभाष्य- के पटयोरिति चेन्न, येषां मते सष्ट वचनं नास्ति तैः क्लिष्टकल्पनया संप्रदानास्याधिकरणत्व विवक्षामाश्रित्य निर्वाहः क्रियतां नाम, अस्मन्मते चाचार्येण स्पष्टं चतुर्थयें प्रत्ययस्य विहितस्त्रोपलब्वेतपत्र तादृश कानामाश्रित्य 5 वैयर्थ्योपपादनस्यायुक्तस्वात् । ननु तदत्रास्मै वा देयमित्येतावदेव सूत्रमस्तु प्रायो वृचादय एव दीयन्ते इति किमर्थमिह तेषामुपादानमिति शङ्कते - वृद्ध धादिग्रहणं किमिति । वृद्धया व्यतिरिक्तं मूल्याद्यपि देयमिति ि वक्षायां मा भूत् प्रत्ययोऽपि तु वाक्यमेव तिष्ठेदित्येतदर्थं 10 तस्यावश्यकत्वात् ||६|४|१५८||
पूरणार्द्धादिकः ||६|४|१५९॥
त०प्र० - पूरण प्रत्ययान्तादर्धशब्दाच्च तदिति प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यर्थयोरिकः प्रत्ययो भवति, यत्तत् प्रथमान्तं वृद्धपादि 15 खेत् तद् भवति । इकणिकटोरपवादः । द्वितीयमस्मिन्मस्मै या वृद्धिरायो लाभ उपदा शुल्कं या देयम् द्वितीयकः । तृतीयिकः । पञ्चमिकः । षष्ठिकः । अर्ध, अधिकः अधिका श्री । अर्धशब्दो रूपका रूढः ||१५९||
20
श०म० ग्यासानुसंन्धानम् - पूरणा० । तदत्रास्मै वेत्यादि पूर्वसूत्रं संबध्यते । तथा च योऽर्थः संपन्न स्तमाह- पूरणप्रत्ययान्तादर्द्धशब्दाच वेत्यादि । इक णिकटोरपवाद इति । पूरणप्रत्ययान्तादव्यवहितपूर्व सूत्रे - कण प्राप्तः, अर्थशब्दाच्च " कंसार्थात्" [६.४.१३५.] 25 इतीट् प्राप्त इति तयोर्ययास्त्रमपवादोऽयमिकः । द्वितीय
मियाद पूरणप्रत्ययान्तो भागवरः, गृहीतस्य णं द्वितीयो भागः, आयादावपि ग्रामादीनामायस्य द्वितीयादिर्भागो ग्राह्यः । इकेकटो रूपे विशेष दर्शयितुमर्धशब्दस्य स्त्रियामपि ममुदाहृतम् । इकटितु टिस्वाद् ङीः स्यादिति विशेष 30 इति भावः ।
नम्वर्धशब्दस्योपदाभिन्नेनायादिनार्थेन कथचित् संबसंभवेऽपि उपदार्थेन संबन्धासंभवः, नहि तत्र प्रकृतं किञ्चिद् यद दीयेतेति शङ्कायामाह--अर्धशब्दो रूपका रूढ इति । रूपकं स्वनाम्ना प्रसिद्धा रौप्यमुद्रा । 35 तस्य च प्रकृतानपेक्षत्वाद् भवत्युपदयाऽपि संबन्ध इति भावः ||६|४|१५९॥
।
[ पा० ४. सृ० १६१ ] भागाद् येकौ ||६|४|१६०॥
त० प्र०- भागशब्दात् तदस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयमिति विषये य इक इत्येतौ प्रत्ययौ भवतः । इकणोऽपवादौ । 40 भागोऽस्मिन्नस्मै वा वृद्धमादीनामन्यतमं देयं भाग्यः । भागिकः । भागिका स्त्री । भागशब्दो ऽपि रूपकार्थस्य वाचकः || १६०||
श० म० न्यासानुसन्धानम् - भागा० । तद
त्रास्मै वेत्यादिसूत्रं संबध्यते । तथा च सूत्रार्थमाह - भाग - 45
शब्दादित्यादिना । भागशब्दस्यांशपरत्वेनांशिसापेक्षत्वादस्यान्यार्थेन कथं संबन्ध इत्याशङ्कायामाह - भागशब्दोऽपि रूपकार्थस्य वाचक इति । एवं च रूपकार्थे रूढस्यास्य नांशवाचकत्वेनां शिविशेष सापेक्षत्वमिति तदुपादानं विनाऽपि हृदयादिभिः सामानाधिकरण्यम् | भागाद् 50 यश्वत्येव न्यासे कृते चेन इकस्याकर्षणे सिद्धे इकप्रहणं सष्टार्थमेव ||६|४|१६०||
तं पचति द्रोणाद् वाजू ||६|४|१६१ ॥
त० प्र०-तमिति द्वितीयान्ताद् द्रोणशब्दात् पचत्यर्थे अप्रत्ययो वा भवति । पक्षे इकण् । 55 द्रोणं पचति । द्रौणः । द्रौणिकः । द्रौणी, द्रौणिकी स्थाली गृहिणी वा । द्वौ द्रोणौ पचति विद्रोणी । 'अनाम्न्यद्विः प्लुप्' । ६.४.१४१.] इति अञिकणोर्लुप् ॥१६१ ॥
श०म० भ्यासानुसन्धानम् - तं पच० । तिमिति 60 द्वितीयान्तोपस्थापकं पदम् । तथा च द्वितीयाऽत्र समर्थ - विभक्तिरिति लभ्यते । वेत्यनेन विकल्पेन प्रत्ययविधानादेतदभावे कः प्रत्यय इत्याकाङ्क्षायामाह पक्षे इकणिति । इक: पादादावेव प्रकृतत्वात् तस्य सर्वत्रौत्सर्गिकत्वादिति भावः । द्रोणं पचतीति । द्रोणो नाम परिमाणविशेषः, 65 तथा चोक्तम्-
"अष्टमुष्टिर्भवेत् कौश्वः कोचरष्टभिराटकम् |
चतुराढको भवेद् द्रोणः खारी द्रोणचतुष्टयम् ॥” इति । तथा च तस्य कथं पाचनक्रियया संबन्ध इति चेत्, सत्यम्, द्रोणशब्दस्य तत्परिमितिपचनीयओदनादौ 70 निरूढा लक्षणेति तस्य पाकेन संबन्वस्य सूपपन्नत्वात् । स्थाल्यादौ विवक्षिते स्वास्वात् ङन्यां द्रौणी इत्यत्रि, इकणि तु द्रौणिकीति । "संख्याया वाईदलुचः " [६.४.८०.]
" Aho Shrutgyanam"