________________
5
'दृष्टिप्रस्थसुवर्णादिमूर्तभेदाय कल्पते । क्रियामेदाय कालस्तु संख्या सर्वस्य भेदिका ||" इति । परिमाणं तु आरोह- परिणाहाभ्यां धान्यादि येन काादिमयेन पात्रेण मीयते तत् प्रस्थादिकमुच्यते । संख्या च परिमाणस्यापि परिच्छेदिका-यथा द्वौ द्रोणाविति । प्रस्थादिकं तु न संख्यां परिच्छेत्तुमलं तस्य संनिवेशसापेक्षत्वात् । तया च सनिषेरातापेक्षस्व-निरपेक्षत्वमपि 10 संख्या- परिमाणयोः पार्थक्यम् । स चेदम्- "आहदिगोपुच्छसंख्यापरिमाणाट्ठक्” [ पा०सू०५.१.१९.] इति सूत्र-भाष्य-प्रदीपोद्यतेषु सुविवेचितम् । एवं च संख्या परिमाणयोर्भेदात् पृथगुक्तिरावश्यकीति ||६४ / १५५॥ पृथिवी सर्वभूमेरीश- ज्ञातयोश्वान् ||६|४|१५६ ||
૨૨૭
परिच्छिद्यते, यथा त्रयः परमाणवः, सप्तकुलपर्वताः इति, द्वावारमानावित्यादि च । तदुक्तम्
कलिकाल सर्वज्ञ श्रीहेमचन्द्रसूरिभगवत्प्रणीते
15
66
त० प्र० - पृथिवी सर्वभूमिशब्दाभ्यां षष्ठयम्ताम्यामीश- ज्ञातयोस्तस्य हेतुः संयोग उत्पात इत्यस्मिन् विषये चाञ्प्रत्ययो भवति । ईशः स्वामी । पृथिव्याः ईशः पार्थिवः । सर्वभूमेः सार्वभौमः । सर्वभूमेरनुशतिकादित्वादुभयपद20 वृद्धिः । पृथिव्या ज्ञातः पार्थिवः । कर्तरि षष्ठी
संबन्धविवक्षायां वा । एवं सार्वभौमः । पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः । सार्वभौमः । ईश-ज्ञातयोरिति द्विवचनं हेतु विशेषणत्वशङ्काव्यवच्छेदार्थम् || १५६||
25
श० म० न्यासानुसन्धानम् - पृथिवी० । तस्येति प्रकृतम् | ईश-शातयोरर्थयोः चकारात् संयोगोत्पात योरर्थयोश्च प्रत्ययविधानम् | ईशशब्दस्यार्थान्तरेऽपि प्रयोगादिह ग्राह्यनर्थमाह — ईशः स्यामीति । सर्वभूमिशब्दस्यो मयपदवृद्धिः कथं दृश्यते इत्यपेक्षायां तस्यानुशतिकादिस्वं 30 स्मारयति - सर्व भूमेरनुशतिकादित्वादिति । ईशार्थे उदाहृत्य ज्ञातार्थे उदाहर्तुमाह - पृथिव्या ज्ञात इति ।
नन्त्रत्र षष्ठी कथं युज्यते पृथिव्या ज्ञातताधिकरणत्वे सप्तमी, ज्ञानकर्तृत्वविवचायां वा तृतीया स्यादित्याशङ्कायामाह - कर्तरि षष्ठीति । वर्तमानार्थकस्य कस्य योगे 35 "तयोरसदाधारे” [२.२.९१.] इति सूत्रेण षष्ठीनिषेधस्य "पर्युदस्तस्वात् कर्तरि” [२.२.८६. ] इति षष्ठीविधानादिति
भावः ।
[ पा० ४ ० १५८ ]
नन्वत्र शातशब्दे वर्तमानार्थक एवं क इत्यत्र न मानम्, न हि वर्तमानकालमा ज्ञानविषये तथाप्रयोगो भवति, किन्तु भूतेऽपि ततश्च षष्ठीनिषेधात् कथं षष्ठयन्तेन 40 सामर्थ्यमिति वेदत्राह -- संबन्धविवक्षायां वेति । नात्र पृथिव्या अधिकरणत्वादिविवक्षा अपि तु संबन्धसामान्यविवक्षा, संवन्धसामान्यविवक्षायां तु सर्वेषु कारकेषु या निर्विवादत्वात् कारकत्वस्य विवक्षामूलत्वात् । सर्वभूमिशब्दादपि षष्ठयन्तादेव, ज्ञातेऽर्थे प्रत्यय इति निर्दिशति - 45 एवं सार्वभौम इति । सर्वभूमेर्शात इत्येव विग्रहोत्रापीत्यर्थः । संयोगोत्पातयोरपि हेतुत्वे प्रयोगमाह - पृथिव्या हेतुः संयोग इत्यादिना । नन्वीशशात इति समाहारनिर्देश एवास्तु किमिति द्विवचनेन निर्दिश्यतेऽत आह— ईश- ज्ञातयोरिति द्विवचनमिति । यथा संयोगो- 50 सातौ हेतु विशेषणतया संबद्धौ तथैवेभावप्यथ तद्विशेषणे इति मा शायिषातामिति द्विवचनेन निर्देशः कृत इत्यर्थः । तथा च विभिन्नविभक्तिकतया न हेतुविशेषणतासंभव इति पृथगर्थत्वप्रतीतिरन्यथा पार्थिवादौ पृथिवीनिमित्तत्वप्रतीतिः स्यादिति भावः ||६|४|१५६॥
लोक सर्वलोकज्ञा ||६|४|१५७॥
त० प्र० - लोक सर्वलोम शब्दाभ्यां तस्येति षष्ठयन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकणप्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकः । सर्व लोक शब्दस्यानुशतिकादि- 60 स्वादुभयपदवृद्धिः ||१५७/
श०म० न्यासानुसंधानम् - लोक० । तस्येति समर्थविभक्तयुपस्थापकं पदं संबध्यते । प्रत्ययान्तरस्यानुक्तेः पादादावधिकृत इकमेव संबध्यते इत्याह-यथाविहितमिकणप्रत्ययो भवति इति । लोकादं सर्वसाधारणजनपरं 65 जगत्परं वा । इकणि आदिस्वरवृद्धिः लौकिक इति । सर्वलोकशब्दे तूभयपदादिस्वरवृद्धिरित्याह- सर्व लोकशब्दस्यानुशतिकादित्वादिति ||६४|१५७ ॥ तदत्रास्मै वा वृद्धाय लाभो पदा-शुल्कं देयम् ||६|४|१५८॥
त० प्र०-तदिति प्रथमान्तादत्रेति सप्तम्यर्थे, अस्मै इति चतुर्थ्यर्थे वा यथाविष्ठितं प्रत्ययो भवति, यत् तत् प्रथमान्तं तच्चेद् वृद्धिरायो लाभ उपदा शुल्कं वा देयं भवति ।
55
"Aho Shrutgyanam"
70