________________
पा० २. सू० १७.]
समासेन धेनुभिन्नं सकलं जगदेबाधेनुपदवाच्यमिति, तेषां समूहस्य व्यावर्तकत्वेन किमर्थोऽयं प्रयोग इति चेत्, सत्यम्, * नञिव युक्तमन्यसदृशाधिकरणे इति न्यायेन 'धेनुर्नवप्रसूतिका' इति कोशान्नवप्रसवविशिष्टा पशुजातिरधेनुपद5 वाच्येति यः चिरप्रसूतानां गवां महिष्यादीनां वा समूहः स एवाधेनुपदवाच्यः स्यादिति अधेनुपदस्य नवप्रसूतगव्यादिव्यावर्त्तकत्वस्य स्फुटत्वम् । कोऽत्र प्रत्यय इत्याह- उत्सा दित्वादव् इति । उत्सादिमणे धेनुशब्दस्य पाठात् ततः प्राग्जितीयेष्वर्थेषु सर्वत्र स एव प्रत्ययो भवतीति अधेनु10 शब्दादपि स प्रत्ययः इत्यर्थः । ननूत्सादौ चेनुशब्द एव पठितो नाधेनुशब्द इति ततः कथमसौ प्रत्यय इति चेन्न, "वष्कयादसमासे” [६.१.२० ] इति सूत्रेऽसमासग्रहणेन तदन्तविवेज्ञपनात् । तदन्तविध्यभावे हि सौवष्कयिरित्यादौ प्रत्ययस्य प्राप्तिरेव नेति समासपर्युदासस्यानर्थक्यमेव स्यात् । 15 स च पर्युदासः प्रकृतप्रकरणे प्रत्ययविधायपि तदन्तग्रहणं ज्ञापयति ।
ननु अनुशब्दे धेनुशब्दत्वाभावादेव प्रत्ययाप्राप्तिरिति अनत्र इति निषेधस्यानर्थक्यमेवेति चेदाह - 'घेनोरनत्रः' इति प्रतिषेधो लिङ्गम्, समूहे तदन्त20 स्यापि ग्रहणं भवतीति । अनेनैव प्रतिषेधेन प्रकृतप्रकरणेऽपि तदन्तविधिविज्ञायत इति भावः । एतावता स्वांश चारिता सत्यपि फलान्तराभावेन ज्ञापनस्य वैय मेवेति शङ्कायां फलान्तरमप्याह- तेन क्षौद्रकमालवकमित्यादि । सेनानाम्नोऽन्यत्र गोत्रलक्षणोऽकञ् गोत्रान्तादपि सिद्धः । ब्राह्मणराजन्यकमित्यत्र राजन्यलक्षणोऽञ् सिद्धः । वानरास्तिकमित्यत्र हस्तिलक्षण इकणू गोधेनुकमित्यत्र धेनुलक्षण इकण् च सिद्ध इति भावः । आधे नवमित्यत्र “ अनुशतिकादीनाम्” [ ७.४.२७.] इत्युभयपदवृद्धिः । गोधेनुकमित्यत्रादिस्वरवृद्विमात्रम्-तस्यानुशतिकादित्वाभावात् ॥ ६.२.१५.॥
25
30
श्रीसिद्धमचन्द्र शब्दानुशासने षष्ठोऽध्यायः ।
35
ब्राह्मण माणव वाडवाद्यः ||६|२|१६|| ब्राह्मण माणव वाडव इत्येतेव्यः समूहे यः प्रत्ययो भवति ।
ब्राह्मण्यम् | माणव्यम् । षाडव्यम् ||१६||
|
|
।
श० म० न्यासानुसन्धानम् - ब्राह्मण० । ब्राह्मणानां समूहः माणवानां समूहः, वाडवानां समूह इति विग्रेहेषु ब्राह्मण्यम् माणव्यम्, वाडव्यमित्येतत् स्पष्टम् १६.२.१६॥
११९
गणिकाया यः ||६|२|१७||
गणिकाशब्दात् समूहे ण्यः प्रत्ययो भवति । गाणिक्यम् । ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् ||
40
ब्राह्मणाः प्रकृता अस्यां यात्रायां ' तयोः समृहवच्च बहुषु ' [ ७.३.३.] इति यः प्रत्ययः । ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः । माण- 45 व्ययात्रः । वाडन्ययात्रः । ण्ये हि पुंषद्भाषो न स्याद् यथा माणिक्यायात्रः ||१७|
"Aho Shrutgyanam"
श० म० न्यासानुसन्धानम्--गणिकायाः ० । गणिकानां समूहः इति विग्रहे गाणिक्यमिति । ननु गणिकाशब्दस्यादिस्वरवृद्धयर्थं ततो ज्यविधानस्यावश्यकत्वेन 50 ब्राह्मण- माणव वाडवेभ्योऽपि ण्य एव विधीयतामिति प्रत्ययद्वयविधानार्थ किमिति योगद्वयं क्रियते इति चेदाह - ब्राह्मणादीनां यविधानं पुंवद्भावार्थमिति । ये वृद्धिनिमित्तो णकारोऽस्ति इति ण्यान्तस्य स्त्रीवाचकस्य बहुब्रीयादी "परतः स्त्रीषुवत् [ ३.२.४९.] इत्यादिना 55 पुंवद्भावे प्राप्ते " तद्धितः स्वरवृद्धिहेतुः” [३.२.५५.] इति पुंवद्भावो निषिध्येत इति ब्राह्मणादिभ्यो ण्यविधाने तदन्तस्य वालिङ्गस्य बहुव्रीहौ पुंवद्भावो न स्यात्, इष्यते च पुंवद्भावः इति तेभ्यः पृथग्यविवानस्यावश्यकत्यमिति भावः । ननु समूहार्थप्रत्ययान्तस्य स्त्रीत्वमेवा- 60 प्रसिद्धमिति तादृशमुदाहरणमेव दुर्लभमिति किं तदर्थं पृथग्योगविधानमिति चेदाह - ब्राह्मणाः प्रकृता यस्यां यात्रायामित्यादि । प्राचुर्याथिं बह्नर्थात् समूहार्थवत् प्रत्ययविधानेन यदि ब्राह्मणादिशब्देभ्यः समूहे यो विधीयते तर्हि प्रकृतायें ( प्राचुर्यार्थि ) ऽपि स एव भवतीति, 65 तदन्तस्य तत्र यात्राबाचकत्वेन स्त्रीत्वमिति स्त्रियां वर्तमानस्य ब्राह्माण्यादिशब्दस्य यात्रया सह बहुव्रीहिसमासे पुंवद्भावनिषेधाभावाद् ब्राह्मण्ययात्र इत्यादयः प्रयोगाः सम्पद्यन्ते, तदर्थ तेभ्यो यविधानमावश्यकम् । ण्ये विहिते तु पुंवद्भावो न स्यात् । यथा-गणिकाः प्रकृता यस्यां यात्रायां सा गाणिक्या, 70 पूर्ववत् "तयोः समूहयच्च बहुषु" [ ७.३.३.] इति ज्ये सिद्धयति । सा यात्रा यस्येत्यर्थे च बहुब्रीहौ पुंवद्भावो न भवति इति गाणिक्यायात्र इति भवति । तथा च फले विशेषस्य सत्त्वेन पृथग्योग; सार्थकः ||६|२|१७||