________________
१७०
योगदृष्टिसंग्रह
योगिभिरदः=असङ्गानुष्ठानं गीयते ॥२२॥
सदृष्टिद्वात्रिंशिका सेन=सङ्क्षपेण लक्षणं स्वरूपं सुखदुःखयोः । इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह
"पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद्ध्यानजं तात्त्विकं सुखम् ॥ (यो. इ. स. १७३) ध्यानं च विमले बौधे सदैव हि महात्मनाम् । सदा प्रसृमरोऽनभ्रे प्रकाशो गगने विधोः ॥२०॥
ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति । तस्य तन्नियतत्वात् । दृष्टान्तमाह-अनभ्रे=अभ्ररहिते गगने विधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति तथावस्थास्वाभाव्यादिति ॥२०॥
प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भावतिरोभावौ तद्व्युत्थानजयोरयम् ॥२३॥
प्रशान्तेति । प्रशान्तवाहिता=परिहतविक्षेपतया सदृशप्रवाहपरिणामिता । वृत्तेः वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह
"तस्य प्रशान्तवाहिता संस्कारात्" (पातं. ३-१०)
कोऽयं निरोध एवेत्यत आह-तद्वयुत्थानजयोः निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भावतिरोभावौ वर्तमानाध्वाभिव्यक्तिकार्यकरणासामर्थ्यावस्थानलक्षणौ । अयं निरोधः । चलत्वेऽपि गुणवृत्तस्योक्तोभयक्षयवृत्तित्वान्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं
"व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः" इति । (पातं. ३-९) ॥२३॥
सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह ॥२४॥
सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसज्ञितम् । संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ॥२१॥
सदिति । सत्प्रवृत्तिपदं चेह=प्रभायाम् असङ्गानुष्ठानसञ्जितं भवति । संस्कारतः प्राच्यप्रयत्नजात् स्वरसत इच्छानैरपेक्ष्येण । प्रवृत्त्या प्रकृष्टवृत्त्या मोक्षकारणम् ।
यथा दृढनोदनानन्तरमुत्तरश्चकभ्रमिसन्तानस्तत्संस्कारानुवेधादेव भवति, तथा प्रथमाभ्यासाद्ध्यानानन्तरं तत्संस्कारानुवेधादेव तत्सदृशपरिणामप्रवाहोऽसङ्गानुष्ठानसञ्ज्ञां लभत इति भावार्थः ॥२१॥
प्रशान्तवाहितासझं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥२२॥
सर्वार्थतेति । सर्वार्थता=चलत्वान्नानाविधार्थग्रहणम् चित्तस्य विक्षेपो धर्मः, एकाग्रता एकस्मिन्नेवालम्बने सदृशपरिणामिता तयोः । क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः उद्रिक्तसत्त्वचित्तान्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते । यदुक्तं"सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः" इति (पातं. ३-११)
पूर्वत्र विक्षेपस्याभिभवमात्रम्, इह त्वत्यन्ताभिभवोऽनुत्पत्तिरूपोऽतीताध्वप्रवेश इत्यनयोर्भेदः । इह-अधिकृतदर्शने तुल्य एकरूपालम्बनत्वेन सदृशौ । शान्तोदितौ अतीताध्वप्रविष्टवर्तमानाध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता
प्रशान्तेति । प्रशान्तवाहितासझं साङ्ख्यानाम् । विसभागपरिक्षयो बौद्धानां । शिववर्त्म शैवानां । ध्रुवाध्वा महाव्रतिकानां । इति एवं हि