________________
१६८
योगदृष्टिसंग्रह
सदृष्टिद्वात्रिंशिका
भोगेति । भोगतत्त्वस्य तु=भोगं परमार्थतया पश्यतः तु न भवोदधिलङ्घनम् । मायोदकदृढावेशः तथाविपर्यासात् तेन यातीह कः पथा ? यत्र मायायामुदकबुद्धिः ॥१३॥
मीमांसा दीपिका चास्यां मोहध्वान्तविनाशिनी । तत्त्वालोकेन तेन स्यान्न कदाप्यसमञ्जसम् ॥१६॥
स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥१४॥
मीमांसेति । मीमांसा सद्विचारणा दीपिका चास्यां कान्तायाम् । मोहध्वान्तविनाशिनी अज्ञानतिमिरापहारिणी तत्त्वालोकेन=परमार्थप्रकाशेन । तेन कारणेन । न कदाप्यसमञ्जसं स्यात् । अज्ञाननिमित्तको हि तद्भाव इति ॥१६॥
ध्यानसारा प्रभा तत्त्वप्रतिपत्तियुता रुजा । वर्जिता च विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥१७॥
स इति । स मायायामुदकसमावेशः । तत्रैव पथि । भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हिं ज्ञानादिलक्षणे तिष्ठत्यसंशयम् । भोगजम्बालमोहितो=भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥१४॥
धर्मशक्तिं न हन्त्यस्यां भोगशक्तिर्बलीयसीम् । हन्ति दीपापहो वायुज्वलन्तं न दवानलम् ॥१५॥
ध्यानेति । ध्यानेन सारा रुचिरा प्रभा । तत्त्वप्रतिपत्त्या यथास्थितात्मानुभवलक्षणया युता । रुजा वजिता । वक्ष्यमाणलक्षणसत्प्रवृत्तिपदावहा च विनिर्दिष्टा ॥१७॥
चित्तस्य धारणादेशे प्रत्ययस्यैकतानता । ध्यानं ततः सुखं सारमात्मायत्तं प्रवर्तते ॥१८॥
धर्मशक्तिमिति । अस्यां कान्तायाम् । कर्माक्षिप्तत्वेन निर्बला भोगशक्तिः । अनवरतस्वरसप्रवृत्तत्वेन बलीयसी धर्मशक्ति न हन्ति । विरोधिनोऽपि निर्बलस्याकिञ्चिकरत्वात् । अत्र दृष्टान्तमाह-दीपापहो दीपविनाशको वायुज्वलन्तं दवानलं न हन्ति प्रत्युत बलीयसस्तस्य सहायतामेवावलम्बते ।
इत्थमत्र धर्मशक्तेरपि बलीयस्या अवश्यभोगकर्मक्षये भोगशक्तिः सहायतामेवालम्बते न तु निर्बलत्वेन तां विरुणद्धीति । यद्यपि स्थिरायामपि ज्ञानापेक्षया भोगानामकिञ्चित्करत्वमेव, तथापि तदंशे प्रमादसहकारित्वमपि तेषाम् । कान्तायां तु धारणया ज्ञानोत्कर्षान्न तथात्वमपि तेषाम् । गृहिणोऽप्येवंविधदशायामुपचारतो यतिभाव एव । चारित्रमोहोदयमात्रात्केवलं न संयमस्थानलाभः, न तु तद्विरोधपरिणाम लेशतोऽपीत्याचार्याणामाशयः ॥१५॥
चित्तस्येति । चित्तस्य मनसो धारणादेशे धारणाविषयो । प्रत्ययस्यैकतानता=विसदृशपरिणामपरिहारेण सदृशपरिणामधाराबन्धो ध्यानम् । यदाह-"तत्र प्रत्ययैकतानता ध्यानं" इति (पातं. ३-२) । तत तस्मात् सुखं सारम् उत्कृष्टम् । आत्मायत्तं परानधीनं प्रवर्तते ॥१८॥
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥१९॥
सर्वमिति । सर्व परवशं पराधीनं दुःखं, तल्लक्षणयोगात् । सर्वमात्मवशम् अपराधीनं सुखम् । अत एव हेतोः । एतदुक्तं मुनिना । समा