________________
१७२
योगदृष्टिसंग्रह समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदासङ्गेन समाध्यासङ्गेन विवर्जिता । सात्मीकृतप्रवृत्तिश्च सर्वाङ्गीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताभावेन ॥२६॥
सदृष्टिद्वात्रिंशिका
१७१ उच्यते समाहितचित्तान्वयिनी । तदुक्तं -"शान्तोदितौ तौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः" (पातं. ३-१२) ।
न चैवमन्वयव्यतिरेकवस्त्वसम्भवः । यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्मापत्तिधर्मपरिणामः, यथा मृल्लक्षणस्य धर्मिण पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः अवस्थापरिणामश्च यथा तस्य घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन चलगुणवृत्तीनां गुणपरिणामानां धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्वव्यपदेशेषु धर्मेषु कथञ्चिद् भिन्नेष्वन्वयी दृश्यते । तथा पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणामान्यत्वम् ।
तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते यथा सुखादयः संस्थानादयो वा । केचिच्चानुमानगम्या यथा कर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं-"एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः (पातं. ३-१३) "शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी (पातं. ३-१४) "क्रमान्यत्वं परिणामान्यत्वे हेतुरिति (पातं. ३-१५) ॥२४॥
स्वरूपमात्रनिर्भासं समाधिानमेव हि । विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥२७॥
स्वरूपेति । स्वरूपमात्रस्य ध्यानस्वरूपमात्रस्य निर्भासो यत्र तत्तथा । अर्थाकारसमावेशेन भूतार्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः । तदुक्तं-"तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति (पातं. ३-३) । विभागम् अष्टाङ्गो योग इति प्रसिद्धम् अनतिक्रम्य अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ॥२७॥
निराचारपदो ह्यस्यामतः स्यान्नातिचारभाक् ।
चेष्टा चास्याखिला भुक्तभोजनाभाववन्मता ॥२८॥ निराचारेति । अस्यां दृष्टौ योगी नातिचारभाक् स्यात् तन्निबन्धनाभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य= एतद्दृष्टिमतः अखिला भुक्तभोजनाभाववन्मता आचारजेयकर्माभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ॥२८॥
कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह
अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः । ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदावहा ॥२५॥
अस्यामिति । अस्यां प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति साधयति । ततश्चयंप्रभा सत्प्रवृत्तिपदावहा विनिर्दिष्टा सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ॥२५॥
समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥२६॥
रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते ॥२९॥
रत्नेति । रत्नशिक्षादृशोऽन्या हि यथा शिक्षितस्य सतः तन्नियोजनहक्, तथाचारक्रियाप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते, पूर्व