________________
योगदृष्टिसंग्रह
मित्यर्थः ॥२॥
इच्छायोगस्वरूपप्रतिपादनायाह
कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥३॥
योगदृष्टिसमुच्चयः व्यवच्छेदमाह, एतज्जिज्ञासाया अपि चरमयथाप्रवृत्तकरणभावित्वादन्यदा तदनुपपत्तिरिति । वीरम् इति चान्वर्थसज्ञेयं, महावीर्यविराजनात्तपःकर्मविदारणेन कषायादिशत्रुजयात्केवल श्रीस्वयंग्रहणेन विक्रान्तो वीरः, तम् । इत्थमनेन यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद् भावस्तवस्य, इष्टदेवतास्तवमाहेति । इष्टत्वं च गुणतो गुणप्रकर्षरूपत्वाद्भगवतः, देवतात्वं च परमगत्यवाप्त्येति । वक्ष्ये समासेन योगं तदृष्टिभेदतः इत्यनेन तु प्रयोजनादित्रयमाह । कथमित्यच्यते-वक्ष्ये अभिधास्ये, योगं मित्रादिलक्षणं, समासेन सक्षेपेण, विस्तरेण तु पूर्वाचायैरेवायमुक्तोऽप्युत्तराध्ययनयोगनिर्णयादिषु, तदृष्टिभेदतः इति =योगदृष्टिभेदेन । तदत्र समासतो योगाभिधानं कर्तुरनन्तरं प्रयोजनम्, परम्पराप्रयोजनं तु निर्वाणमेव, शुद्धाशयतस्तथासत्त्वहितप्रवृत्तेरस्याश्चावन्ध्यनिर्वाणबीजत्वादिति । अभिधेयं योग एव । साध्यसाधनलक्षणः सम्बन्ध इति क्षुण्णोऽयं मार्गः । श्रोतृणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानं परम्पराप्रयोजनं त्वमीषामपि निर्वाणमेव, प्रकरणार्थपरिज्ञानादौचित्येनात्रैव प्रवृत्तेरस्याश्चाप्यवन्ध्यनिर्वाणबीजत्वादिति ॥१॥
एवं सम्पादितेष्टदेवतास्तव: प्रयोजनाद्यभिधाय प्रकरणोपकारकं प्रासङ्गिकमभिधातुमाह
कर्तुमिच्छोः कस्यचिन्निर्व्याजमेव तथाविधक्षयोपशमभावेन । अयमेव विशिष्यते । किविशिष्टस्यास्य चिकीर्षोः ? श्रुतार्थस्य श्रुतागमस्य, अर्थशब्दस्यागमवचनत्वात्, अर्यतऽनेन तत्त्वम् इति कृत्वा । अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्याद्, अत आह ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापीति । एवंभूतस्यापि सतः किमित्याह-प्रमादत:=प्रमादेन विकथादिना, विकल: असम्पूर्णः कालादिवैकल्यमाश्रित्य, धर्मयोगो= धर्मव्यापारः, यः इति योऽर्थः वन्दनादिविषयः स इच्छायोग उच्यते इच्छाप्रधानत्वं चास्य तथाऽकालादावपि करणादिति ॥३॥
शास्त्रयोगस्वरूपाभिधित्सयाह
शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा ॥४॥
इहैवेच्छादियोगानां स्वरूपमभिधीयते ।
योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥२॥
इहैव इति प्रक्रमे । किमित्याह-इच्छादियोगानाम् इति । इच्छायोगशास्त्रयोगसामर्थ्ययोगानाम् । किमत आह-स्वरूपमभिधीयते इति स्वलक्षणमुच्यते । किमर्थमेतदित्याह-योगिनामुपकाराय इति । योगिनोऽत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते वक्ष्यमाणलक्षणाः, न निष्पन्नयोगा वक्ष्यमाणलक्षणा एव, तेषामत उपकाराभावात्, तदितरेषामेवोपकारार्थम् । उपकारश्चातो योगहदयावबोधः । कथमभिधीयत इत्याह-व्यक्तं स्पष्टं । न चाप्रस्तुतमप्येतदित्याह-योगप्रसङ्गत इति, मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुक्त्याक्षिप्त
शास्त्रयोगस्तु इति शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाद्धर्मव्यापार एव । स तु पुनः, इह-योगतन्त्रे, ज्ञेयो विज्ञेयः । कस्य कीदृगित्याहयथाशक्ति शक्त्यनुरूपम्, अप्रमादिनः =विकथादिप्रमादरहितस्य । अयमेव विशिष्यते-श्राद्धस्य तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः, तीव्रबोधेन पटुबोधेन हेतुभूतेन, वचसा आगमेन, अविकल: अखण्डः, तथा कालादिवैकल्याबाधया, 'न ह्यपटवोऽतिचारदोषज्ञा' इति ॥४॥
सामर्थ्ययोगलक्षणमाह