________________
योगदृष्टिसमुच्चयः
शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युरेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥५॥
योगदृष्टिसंग्रह परिच्छेदयोगात्, ततश्च तदा =श्रवणकाल एव, सिद्धिपदाप्तितः मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेव सद्भावावगतिप्रसङ्गादिति ॥७॥
स्यादेतत् अस्त्वेवमपि वा नो बाधा, इत्यत्राह
न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् ॥८॥
शास्त्रसन्दर्शितोपायः इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । तदतिक्रान्तगोचर इति शास्त्रातिकान्तविषयः । कुत इत्याह-शक्त्युद्रेकात् इति शक्तिप्राबल्यात् । विशेषेण इति न सामान्येन शास्त्रातिकान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । सामर्थ्याख्योऽयम् इति सामर्थ्ययोगाभिधानोऽयं योगः, उत्तम: सर्वप्रधानः, तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वादिति ॥५॥
एतत्समर्थनार्यवाह
सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः ।
शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥६॥
सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा=मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः । किमित्याह-न तत्त्वत:=न तत्त्वभावेन परमार्थतः शास्त्रादेवावगम्यन्ते । न चैवमपि शास्त्रवैयर्थ्यमित्याह-सर्वथैवेह योगिभिः इति सर्वैरेव प्रकारैः इह: लोके योगिभिः साधुभिः अनन्तभेदत्वात्तेषामिति ॥६॥
सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाह
न चैतदेवम् अनन्तरोदितं शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः । यद् यस्मादेवं, तस्मात् प्रातिभज्ञानसङ्गतो मार्गानुसारिप्रकृष्टोहाख्यज्ञानयुक्तः । किमित्याह-सामर्थ्ययोग: सामर्थ्यप्रधानो योगः सामर्थ्ययोगः प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते । अयम् अवाच्योऽस्ति तद्योगिनो संवेदनसिद्धेः सर्वज्ञत्वादिसाधनम् अक्षेपेणातः सर्वज्ञत्वसिद्धः ।
आह - इदमपि प्रातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत्केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्धयाख्यपदसम्प्राप्तिहेतुभेदास्तत्त्वतः शास्त्रादेवावगम्यन्त इति । अत्रोच्यते नैतच्छ्रतं, न केवलं, न च ज्ञानान्तरमिति, रात्रिन्दिवारुणोदयवत् । अरुणोदयो हि न रात्रिन्दिवातिरिक्तो, न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन्न तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोपशमिकत्वादशेषद्रव्यपर्यायाविषयत्वान्न केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः ॥८॥
सामर्थ्ययोगभेदाभिधानायाहद्विधायं धर्मसंन्यास-योगसंन्याससञ्जितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥९॥
सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥७॥
सर्वथा सर्वैः प्रकारैरक्षेपफलसाधकत्वादिभिः । तत्परिच्छेदात् शास्त्रादेव सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात् । किमित्याह-साक्षात्कारित्वयोगतः केवलेनेव साक्षात्कारित्वेन योगात्कारणत्वेन योगात्कारणात्, तत्सर्वज्ञत्वसंसिद्धेः श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामनेन सर्वथा
द्विधा द्विप्रकार: अयं सामर्थ्ययोगः । कथमित्याह-धर्मसंन्यासयोगसंन्याससज्ञितः इति । धर्मसंन्याससज्ञा सञ्जातास्येति 'तारकादिभ्य इतच्' ।