________________
योगदृष्टिसमुच्चयः
योगतन्त्रप्रत्यासन्नभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या प्रारभ्यते ।
इह चादावेवाचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थ चेदं श्लोकसूत्रमुपन्यस्तवान्
नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तदृष्टिभेदतः ॥१॥ इति ।
योगदृष्टिसंग्रह सर्वस्यैव हि शास्त्रस्य, कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यते ? ॥ न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् । काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः ।। अस्येदं फलमित्येवं, योग: सम्बन्ध उच्यते ।
तदुक्त्यन्तर्गतत्वेन, न पृथक्कैश्चिदिष्यते ॥ इत्यादि । तत्र नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् वीरम् इत्यनेनेष्टदेवतास्तवमाह, वक्ष्ये समासेन योगं तदृष्टिभेदतः इत्यनेन तु प्रयोजनादित्रयमिति श्लोकसूत्रसमुदायार्थः ।
अवयवार्थस्तु नत्वा प्रणम्य वीरम् इति योगः । कथमित्याह इच्छायोगतः इति क्रियाविशेषणमदः इच्छायोगेन । शास्त्रयोगसामर्थ्ययोगव्यवच्छेदार्थमेतत् । इष्टव्यवच्छेदश्चायं तदनधिकारित्वेन प्रकरणारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः । एतेषां च त्रयाणामपि योगानां स्वरूपमनन्तरमेव वक्ष्यति । किंविशिष्टं वीरमित्याह जिनोत्तमम् इति वस्तुविशेषणम् । इह रागादिजेतृत्वात्सर्वे एव विशिष्ट श्रुतधरादयो जिना उच्यन्ते । तद्यथा श्रुतजिनाः, अवधिजिनाः मन:पर्यायज्ञानजिनाः, केवलिजिनाश्च । तेषामुत्तमः केवलित्वात्तीर्थकरत्वाच्च । अनेन भगवतस्तथाभव्यत्वाक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थंकरनामकर्मविपाकफलरूपां परंपरार्थसम्पादनी कर्मकायावस्थामाह ।
अयमेव विशिष्यते अयोगम् इति । कायवाङ्मनःकर्म योगः, अविद्यमानयोगोऽयोगः तम् । अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनीं समस्तकर्मापगमरूपां तथाभव्यत्वपरिक्षयोद्भूतपरमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थां परमफलरूपां च तत्त्वकायावस्थामिति ।
अत एवाह—योगिगम्यम् इति । योगिनां गम्यो योगिगम्यः, तम् । योगिनोऽत्र श्रुतजिनादयो गृह्यन्ते । अनेनापि भगवतोऽयोगिमिथ्यादृष्टिगम्यत्व
तत्र शिष्टानामयं समयो यदुत "शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते" । अयमप्याचार्यों न हि न शिष्ट इति, अतस्तत्समयप्रतिपालनाय, तथा चोक्तम् ।
शिष्टानामेष समयस्ते सर्वत्र शुभे किल ।
प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम् ॥ इत्यादि । तथा श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च
श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ इति इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम् । अतो मा भूद्विघ्न इति विघ्नविनायकोपशान्तये । तथा प्रेक्षावतां प्रवृत्त्यर्थं प्रयोजनादिप्रतिपादनार्थं च । तथा चोक्तम्