________________
योगविवेकद्वात्रिंशिका
शास्त्रातिकान्तविषयत्वमस्य समर्थयन्नाह
१००
योगदृष्टिसंग्रह रात्रेरिति । यथाऽरुणोदयो रात्रेर्दिनादपि पृथग् नो वाऽपृथगित्यर्थः । न पुनरत्रैकरूप्यं विवेचयितुं शक्यते, पूर्वापरत्वाविशेषेणोभयभागसम्भवात् । श्रुतात् केवलज्ञानाच्च तथेदमपि प्रातिभं ज्ञानं भाव्यतां, तत्काल एव तथाविधक्षयोपशमभाविनस्तस्य श्रुतत्वेन तत्वतोऽसंव्यवहार्यतया श्रुताद् अशेष-द्रव्यपर्यायाविषयत्वेन क्षायोपशमिकत्वेन च केवलज्ञानाद् विभिन्नत्वात् केवल श्रुतपूर्वापरकोटिव्यवस्थितत्वेन तद्धे तुकार्यतया च ताभ्यामभिन्नत्वात् ॥८॥
ऋतम्भरादिभिः शब्दैर्वाच्यमेतत्परैरपि । इष्यते गमकत्वं चामुष्य व्यासोऽपि यज्जगौ ॥९॥
शास्त्रादेव न बुध्यन्ते सर्वथा सिद्धिहेतवः ।
अन्यथा श्रवणादेव सर्वज्ञत्वं प्रसज्यते ॥६॥
शास्त्रादिति सिद्धिहेतवः सर्वे । सर्वथा सर्वैः प्रकारैः । शास्त्रादेव न बुध्यन्ते । अन्यथा शास्त्रादेव सर्वसिद्धिहेतूनां बोधे सर्वज्ञत्वं प्रसज्यते । श्रवणादेव सर्वसिद्धिहेतुज्ञाने सार्वज्ञ्यसिद्ध्युपधायकोत्कृष्टहेतुज्ञानस्याप्यावश्यकत्वात्, तदुपलम्भाख्यस्वरूपाचरणरूपचारित्रस्यापि विलम्बाभावात्, सर्वसिद्ध्युपायज्ञानस्य सार्वज्यव्याप्यत्वाच्च । तदिदमुक्तं
सिद्ध्याख्यपदसंप्राप्तेर्हेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥ (यो, दृ, स. ६.७) प्रातिभज्ञानगम्यस्तत्सामर्थ्याख्योऽयमिष्यते ।
अरुणोदयकल्पं हि प्राच्यं तत्केवलार्कतः ॥७॥
प्रातिभेति । तत् तस्मात्त् प्रातिभज्ञानगम्यः सामर्थ्याख्यो योग इष्यते । सार्वज्यहेतुः खल्वयं मार्गानुसारिप्रकृष्टोहस्यैव विषयो न तु वाचा, क्षपकश्रेणिगतस्य धर्मव्यापारस्य स्वानुभवमात्रवेद्यत्वादिति भावः । ननु प्रातिभमपि श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गात्तथा च कथं शास्त्रातिक्रान्तविषयत्वमस्येत्यत आह-तत् प्रातिभं हि केवलार्कतः केवलज्ञानभानुमालिनः प्राच्य= पूर्वकालीनं अरुणोदयकल्पम् ॥७॥
एतदेव भावयतिरात्रेर्दिनादपि पृथग्यथा नो वाऽरुणोदयः । श्रुताच्च केवलज्ञानात्तथेदमपि भाव्यताम् ॥८॥
ऋतम्भरादिभिरिति । एतत् प्रकृतं प्रातिभज्ञानं परैरपि पातञ्जलादिभिः ऋतम्भरादिभिः शब्दैर्वाच्यमिष्यते आदिना तारकादिशब्दग्रहः । गमकत्वं सामर्थ्ययोगज्ञापकत्वं चामुष्य प्रातिभस्य परिष्यते । यद् यस्माद् व्यासोऽपि जगौ ॥९॥
आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥१०॥
__आगमेनेति । आगमेन शास्त्रेण । अनुमानेन लिङ्गाल्लिङ्गिज्ञानरूपेण । ध्यानाभ्यासस्य रसः श्रुतानुमानप्रज्ञाविलक्षणऋतम्भराख्यो विशेषविषयस्तेन च त्रिधा प्रज्ञा प्रकल्पयन् उत्तम सर्वोत्कृष्टं योगं लभते ॥१०॥
द्विधाऽयं धर्मसंन्यासयोगसंन्यासञ्जितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥११॥
द्विधेति । द्विधा द्विप्रकारः अयं सामर्थ्ययोगः । धर्मसंन्यासयोगसंन्याससजे जाते यस्य स तथा । सञ्ज्ञा चेह तथा सञ्जायत इति कृत्वा