________________
योगदृष्टिसंग्रह
साङ्गमप्येककं कर्म प्रतिपन्ने प्रमादिनः । नत्वेच्छायोगत इति श्रवणादत्र मज्जति ॥३॥
योगविवेकद्वात्रिंशिका
साङ्गमिति । साङ्गमपि अङ्गसाकल्येनाविकलमपि । एककं स्वल्पं किञ्चित् कर्म । प्रतिपन्ने=बहुकालव्यापिनि प्रधाने कर्मण्याहते । प्रमादिनः= प्रमादवतः । नत्वेच्छायोगत इति श्रवणादत्र=इच्छायोगे निमज्जति निमग्नं भवति, अन्यथा हीच्छायोगाधिकारी भगवान् हरिभद्रसूरियोगदृष्टिसमुच्चयप्रकरणप्रारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रदर्शनार्थं नत्वेच्छायोगतोऽयोगमित्यादि नाऽवक्षत् । वाङ्नमस्कारमात्रस्याल्पस्य विधिशुद्धस्यापि सम्भवात् । प्रतिपन्नस्वपर्यायान्तर्भूतत्वेन च प्रकृतनमस्कारस्यापीच्छायोगप्रभवत्वमदुष्टमिति विभावनीयम् ॥३॥
अध्यात्मादीन् योगभेदानुपदर्थ्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाह
इच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्रज्ञैनिर्व्याजं यो विधीयते ॥१॥
इच्छामिति । इच्छां शास्त्र सामर्थ्य चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते । इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं= निष्कपटं विधीयते, सव्याजस्तु योगाभासो गणनायामेव नावतरतीति ॥१॥
यथाशक्त्यप्रमत्तस्य तीव्रश्रद्धाऽवबोधतः । शास्त्रयोगस्त्वखण्डाऽर्थाराधनादुपदिश्यते ॥४॥
चिकीर्षोः श्रुतशास्त्रस्य ज्ञानिनोऽपि प्रमादिनः । कालादिविकलो योग इच्छायोग उदाहृतः ॥२॥
यथाशक्तीति । यथाशक्ति स्वशक्त्यनतिक्रमेण । अप्रमत्तस्य= विकथादिप्रमादरहितस्य । तीव्रौ तथाविधमोहापगमात् पटुतरौ यौ श्रद्धावबोधौ जिनप्रवचनास्तिक्यतत्त्वपरिच्छेदौ ततः । अखण्डाराधनात् कालाद्यविकलवचनानुष्ठानात्तु शास्त्रयोग उपदिश्यते ॥४॥
शास्त्रेण दर्शितोपायः फलपर्यवसायिना । तदतिक्रान्तविषयः सामर्थ्याख्योऽतिशक्तितः ॥५॥
चिकीर्षोरिति । चिकीर्षो:=तथाविधक्षयोपशमाभावेऽपि निर्व्याजमेव कर्तुमिच्छोः । श्रुतार्थस्य श्रुतागमस्य । अर्यतेऽनेन तत्त्वमिति कृत्वार्थशब्दास्यागमवचनत्वात् । ज्ञानिनोऽपि अवगतानुष्ठेयतत्त्वार्थस्यापि । प्रमादिनो= विकथादिप्रमादवतः । कालादिना विकल: असम्पूर्णः । योग: चैत्यवन्दनादिव्यापार इच्छायोग उदाहृतः प्रतिपादितः ॥२॥
प्रधानस्येच्छायोगत्वे तदंशस्यापि तथात्वमिति दर्शयन्नाह
शास्त्रेणेति । फलपर्यवसायिना मोक्षपर्यन्तोपदेशेन शास्त्रेण । दर्शितः सामान्यतो ज्ञापित उपायो यस्य, सामान्यतः फलपर्यवसानत्वाच्छास्त्रस्य द्वारमात्रबोधनेन विशेषहेतुदिक्प्रदर्शकत्त्वात् । अतिशक्तित: शक्तिप्राबल्यात् । तदतिक्रान्तविषयः शास्त्रातिक्रान्तगोचरः । सामर्थ्याख्यो योग उच्यते ॥५॥