________________
योगदृष्टिसमुच्चयः
अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥५१॥
अत्वरापूर्वकम्=अनाकुलमित्यर्थः । सर्वं सामान्येन । किं तदित्याहगमनं देवकुलादौ, कृत्यमेव वा वन्दनादि, प्रणिधानसमायुक्तं=मन:प्रणिधानपुरःसरं, अपायपरिहारतः = दृष्ट्याद्यपायपरिहारेण ॥५१॥
उक्तं दर्शनम्, अस्यैव शुश्रूषामाह
कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ॥५२॥
२७
कान्तकान्तासमेतस्य= कमनीयप्रियतमायुक्तस्य, दिव्यगेयश्रुतौ यथा=किन्नरादिगेयश्रुतावित्यर्थः । यूनो = वयः स्थस्य, भवति शुश्रूषा = श्रोतुमिच्छा तद्गोचरैव, तथाऽस्यां दृष्टौ व्यवस्थितस्य सतः, तत्त्वगोचरा = तत्त्वविषयैव शुश्रूषा भवति ॥५२॥
इयं चैवम्भूतेत्याह
बोधाम्भ: स्त्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥५३॥
बोधाम्भःस्रोतसो=बोधोदकप्रवाहस्य, चैषा शुश्रूषा, सिरातुल्या= अवन्ध्याऽक्षयतद्बीजकल्पतया, सतां मता=मुनीनामिष्टा । अभावेऽस्याः= शुश्रूषायाः । किमित्याह श्रुतं व्यर्थं श्रमफलम् । किंवदित्याह-असिरावनिकूपवत् असिरावनौ पृथिव्यां कूपखननं, अतत्खननमेवाऽतत्फलत्वादिति ॥५३॥ इहैव व्यतिरेकमाह
२८
योगदृष्टिसंग्रह
श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तित: । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥५४॥
श्रुताभावेऽपि=श्रवणाभावेऽपि, भावेऽस्याः = शुश्रूषायाः, किमित्याहशुभभावप्रवृत्तित:-तद्भावस्यैव शुभत्वात् फलं कर्मक्षयाख्यं स्यात् वचनप्रामाण्येन । एतच्च परबोधनिबन्धनं= प्रधानबोधकारणं वचनप्रामाण्यादेव ॥५४॥
योगेऽक्षेपगुणमाह
शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥५५॥
शुभयोगसमारम्भे तथाविधध्यानादौ न क्षेपोऽस्याम्=अधिकृतदृष्टौ सत्यां, कदाचन भवति । उपायकौशलं चापि तथाविधदेशाऽध्यासनादि, चारु = शोभनं तद्विषयं शुभयोगसमारम्भविषयं भवेदिति ॥५५॥ तथाऽस्यामेव दृष्टावभ्युच्चयमाह
परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥५६॥
परिष्कारगतः=उपकरणगत इत्यर्थः । प्रायो = बाहुल्येन । विघातोऽपि = इच्छाप्रतिबन्धो, न विद्यते अस्यां सत्यामिति । अविघातश्च किम्भूतो भवतीत्याह-सावद्यपरिहारात्=प्रतिषिद्धपरिहारेण, महोदय: = अभ्युदयनिःश्रेयसहेतुरित्यर्थः ॥५६॥
उक्ता बला । साम्प्रतं दीप्रामाह
प्राणायामवती दीप्रा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥५७॥