________________
योगदृष्टिसमुच्चयः
तथा
योगदृष्टिसंग्रह नाऽस्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥४८॥
भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथाऽनाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥४५॥
भयं नातीव भवजं तथाऽशुभाऽप्रवृत्तेः । कृत्यहानिर्न चोचिते सर्वस्मिन्नेव धर्मादरात् । तथाऽनाभोगतोऽप्युच्चैः अत्यर्थं, न चाऽप्यनुचितक्रिया सर्वत्रैव ॥४५॥
नाऽस्माकं महती प्रज्ञा-संवादिनी, स्वप्रज्ञाविकल्पिते विसंवाददर्शनात् । तथा सुमहान् शास्त्रविस्तरः तत्तत्प्रवृत्तिहेतुत्वात् । एवं शिष्टाः= साधुजनसंमताः, प्रमाणमिह व्यतिकरे, तस्मादित्येवमस्या दृष्टी, मन्यते सदा यत्तैराचरितं तदेव यथाशक्ति सामान्येन कर्तुं युज्यत इत्यर्थः ॥४८॥
उक्ता तारा । अधुना बलोच्यते । तदत्राह
सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥४९॥
सुखासनसमायुक्तमिति स्थिरसुखासनवत् । बलायां दृष्टौ दर्शनं प्रागुक्तं, दृढं काष्ठाग्निकणोपममिति कृत्वा । परा च तत्त्वशुश्रूषा जिज्ञासासम्भवेति । न क्षेपो योगगोचरः तदनुद्वेगज इति कृत्वा ॥४९॥
अमुमेवार्थमाह
कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले सन्त्रासो द्वेषवर्जितः ॥४६॥
कृत्ये ध्यानादौ । अधिके स्वभूमिकापेक्षया । अधिकगते= आचार्यादिवर्तिनि । जिज्ञासाऽस्य कथमेतदेवमिति लालसान्विता= अभिलाषातिरेकयुक्ता । तुल्ये कृत्ये वन्दनादौ, निजे तु आत्मीय एव, विकले कायोत्सर्गकरणादिना, सन्त्रासो भवत्यात्मनि हा ! विराधकोऽहमिति, द्वेषवर्जितो अधिकेऽधिकृतदृष्टिसामर्थ्यादिति ॥४६॥
दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् ? । चित्रा सतां प्रवृत्तिश्च साऽशेषा ज्ञायते कथम् ? ॥४७॥
नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते ।
तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥५०॥
नास्याम् अधिकृतदृष्टौ, सत्यामसत्तृष्णा स्थितिनिबन्धनातिरिक्तगोचरा, प्रकृत्यैव स्वभावेनैव, न प्रवर्तते, विशिष्टशुद्धियोगात् । तदभावाच्च = असत्तृष्णाऽभावाच्च, सर्वत्र व्याप्त्या, स्थितमेव सुखासनं तथापरिभ्रमणाभावेन ॥५०॥
एतदेवाह
दुःखरूपो भवः सर्वो जन्मजरादिरूपत्वात् । उच्छेदोऽस्य भवस्य, कुतो हेतोः क्षान्त्यादेः । कथं केन प्रकारेण । चित्रा सतां मुनीनां, प्रवृत्तिः= चैत्यकर्मादिना प्रकारेण, साऽशेषा ज्ञायते कथं तदन्याऽपोहतः ॥४७॥
यत: