________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ७९
वैधर्म्य - उत्कर्षापकर्ष-वर्ण्यवर्ण्य विकल्प-साध्य प्राप्त्यप्राप्ति-प्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्ति-संशय-प्रकरणाऽहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धि- नित्यानित्य कार्यसमजातयः । वादिनोऽपजयहेतुर्निग्रहस्थानम् । प्रतिज्ञाहानिः प्रतिज्ञान्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम् अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम् अप्राप्तकालं, न्यूनम् अधिकम्, पुनरुक्तम्, अन नुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानि । शेषं सुगमम् ।
ननु करतलानलसंयोगे सत्यपि, प्रतिबन्धके सति दाहानुत्पत्तेः शक्तिः पदार्थान्तरम् इति चेत् ? न प्रतिबन्धकाभावस्य कार्यमात्रे कारणत्वेन शक्तेरनुपयोगात् कारणत्वस्यैव शक्तिपदार्थत्वात् । ननु भस्मादिना कांस्यादौ शुद्धिदर्शनाद् आधेयशक्तिरङ्गीकार्या इति चेत् ? न, भस्मादिसंयोगसमानकालीनाऽस्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात् । स्वत्वमपि न पदार्थान्तरम् । यथेष्टविनियोगयोगत्वस्य स्वत्वरूपत्वात् तदवच्छेदकं च प्रतिग्रहादिलब्धत्वमेवेति ।
[विधिनिरूपणम् ]
अथ विधिर्निरूप्यते । प्रयत्नजनकचिकीर्षाजनकज्ञानविषयो विधिः । तत्प्रतिपादको लिङ्गादिर्वा । कृत्यसाध्ये प्रवृत्त्यदर्शनात्, कृतिसाध्ये प्रवृत्तिदर्शनात् कृतिसाध्यताज्ञानं प्रवर्तकम् । न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः, इष्टतासाधनतालिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले विहितकालशुचिजीवित्वनिमित्तज्ञानजन्यस्य नित्य नैमित्तिकस्थले, प्रवर्तकत्वात् । न चाऽननुगमः, स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वस्यानुगतत्वात् इति गुरवः । तन्न, लाघवेन कृति
८० • तर्कसंग्रहः साध्येष्टसाधनताज्ञानस्यैव चिकीर्षाद्वारा प्रयत्नजनकत्वात् । न च नित्ये इष्टसाधनत्वाभावाद् अप्रवृत्तिप्रसङ्गः, तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात् । तस्मात् कृतिसाधनत्वमेव लिङाद्यर्थः । ननु 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र लिङा स्वर्गसाधनकार्यं प्रतीयते, यागस्याशुतरविनाशनः कालान्तरभाविस्वर्गसाधनत्वायोगात्, तद् योग्यं स्थायिकार्यमपूर्वमेव लिङाद्यर्थः । कार्यं कृतिसाध्यम् । कृतेः सविषयत्वाद् विषयाकाङ्क्षायां यागो विषयत्वेन अन्वेति । 'कस्य कार्यम्' इति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियोज्यपरतया अन्वेति । कार्यबोद्धा नियोज्यः । तेन ज्योतिष्टोमनामकयागविषयं स्वर्गकामस्य कार्यम् इति वाक्यार्थः सम्पद्यते । वैदिकलिङ्त्वात् 'यावज्जीवम् अग्निहोत्रं जुहुयात्' इति नित्यवाक्येऽपि अपूर्वमेव वाच्यं कल्प्यते 'आरोग्यकामो भेषजपानं कुर्यात्' इत्यादौ लौकिक-लिङ क्रियाकार्ये लक्षणा इति चेत् ? न, यागस्याप्ययोग्यतानिश्चयाभावेन साधनतया प्रतीत्यनन्तरं निर्वाहार्थम् अवान्तरव्यापारतयाऽपूर्वकल्पनात् । कीर्तनादिना नाशश्रुतेर्न यागध्वंसो व्यापारः । लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिडा बोध्यत इति लिङ्गत्वेन विध्यर्थकत्वम् । आख्यातत्वेन यत्नार्थकत्वम् । 'पचति' 'पाकं करोति' इति विवरणदर्शनात् । 'किं करोति ?' इति प्रश्ने 'पचति' इत्युत्तराच्च आख्यातस्य प्रयत्नार्थकत्वनिश्चयात् । 'रथो गच्छति' इत्यादौ अनुकूलव्यापारे लक्षणा । 'देवदत्तः पचति' 'देवदत्तेन पच्यते तण्डुलः' इत्यादौ कर्तृकर्मणोर्ना - ख्यातार्थत्वम्, किन्तु तद्गतैकत्वादीनामेव । तयोराक्षेपादेव लाभ: । 'प्रजयति' इत्यादौ धातोरेव प्रकर्षे शक्तिः । उपसर्गाणां द्योतकत्वमेव न तु तत्र शक्तिरस्ति ।
पदार्थज्ञानस्य परमप्रयोजनं मोक्षः तथा हि 'आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्या श्रवणादीनां