________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ८१
तत्त्वसाक्षात्कारे हेतुत्वबाधनात् श्रुत्या देहादिविलक्षणात्मज्ञाने सत्यपि असम्भावनानिवृत्तेः, युक्त्यनुसन्धानरूपमननसाध्यत्वात्, मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्यापि मोक्षोपयोगित्वम् । तदनन्तरं श्रुत्योपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्षणात्मसाक्षात्कारे सति देहादौ अहमभिमानरूपमिथ्याज्ञाननाशे सति दोषाभावात्, प्रवृत्त्यभावे धर्माधर्मयोरभावाद्, जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरमदुःखध्वंसरूपो मोक्षो जायते । ज्ञानमेव मोक्षसाधनम् । मिथ्याज्ञाननिवृत्तेर्ज्ञानमात्रसाध्यत्वात् । 'तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' [ ] इति साधनानन्तरनिषेधाच्च । ननु
'तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामुने ।' [
] इति
कर्मणोऽपि मोक्षसाधनत्वश्रवणात् ज्ञानकर्मणोः समुच्चयः इति चेत् ? न
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ।
ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् ॥ [
अभ्यासात् पक्वविज्ञानं कैवल्यं लभते नरः ॥ [
इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात् ज्ञानद्वारैव कर्म मोक्षसाधनम्, न साक्षात् । तस्मात् पदार्थज्ञानस्य न मोक्षः परमप्रयोजनम् इत्येव रमणीयम् ॥
]
]
इति श्रीमदन्नंभट्टोपाध्यायविरचिता तर्कसंग्रहदीपिका समाप्ता ॥ अथ गौतमीयप्रमाणप्रमेयादिपदार्थानां सप्तपदार्थान्तर्भावः ।
विति प्रमाणं चतुर्धा | संशयः एकस्मिन् धर्मिणीत्यादिः । अवयवाः
८२ • तर्कसंग्रहः
पञ्च प्रतिज्ञादयः । तर्कों व्याप्यारोपेणेति । आत्मेति अर्थाः सप्त पदार्थाः । दुःखध्वंसत्वं मोक्षत्वम् एवमुच्यते चेत् अस्मादादीनामप्यात्मनि यत्किञ्चिद् दुःखध्वंसोऽस्ति तत्रापि मोक्षत्वापत्तिः, तदर्थं दुःखध्वंसे प्रागभावासमानकालीनत्वं विशेषणं निवेश्यम् । अथ अस्मादादीनामात्मनि यदा दुःखध्वंसोऽस्ति तस्मिन् काले भाविदुःखप्रागभावोऽप्यस्ति, अतो नातिव्याप्तिः । अथ शुकात्मनि वामदेवात्मनि च चरमदुःखध्वंसोऽस्ति तत्र मोक्षत्वं नायाति कथम् ? यस्मिन्काले तयोर्दुःखध्वंसः तस्मिन्कालेऽन्येषां बद्धानां संसारिणामात्मनि दुःखप्रागभावो वर्तते, अतः स दुःखध्वंसो दुःखप्रागभावस्य समानकालीनोऽस्ति तेनाऽत्र असम्भवः, तदर्थं दुःखप्रागभावे स्वसमानाधिकरणत्वं विशेषणं निवेश्यम्, अतः परं नासम्भवः । कथम् ? स्वशब्देन संसारिजीवात्मकदुःखध्वंसः, तत्समानाधिकरणे यो दुःखप्रागभावः, तस्य समानकालीनो यो यो दुःखध्वंसः तदन्यदुःखध्वंसो मोक्षः । प्रमाणेन निश्चितोऽर्थः सिद्धान्तः । तत्त्वेति अत्र विजिगीषा नास्ति । यत्र परपक्षखण्डने तात्पर्यं स्वपक्षस्थापने तु इच्छेव नास्ति सा वितण्डा । छलमिति यथा नवकम्बलोऽयम् ।
नन्विति ननु वहौ दाहानुकूला शक्तिरस्ति सोऽतिरिक्तः पदार्थो भवति । प्रतिबन्धके सति तन्नाशाद् दाहोत्पत्तिर्न जायते इति चेत् ? न, यथा दाहत्वावच्छिन्नं प्रति करतलानलसंयोगत्वेन कारणता तथा कार्यमात्रं प्रति प्रतिबन्धकाभावत्वेनापि कारणताऽस्ति । अत्र प्रतिबन्धकाभावरूपस्य कारणस्य नष्टत्वाद् दाहोत्पत्तिर्नेत्यर्थः । शक्तेस्तु उपयोग एव नास्ति । नन्विति ननु भस्मादिना कांस्यादौ आधारे आधेया शुद्धिर्यथा दृश्यते तथा वह्नावपि आधेयशक्तिः स्वीकार्या इति चेत् ? न भस्मादिसंयोगस्य समानकालीनाः, अस्पृश्यस्पर्शोऽमेध्यस्पर्शः प्रतियोगी येषां ते तथोक्ता ये यावन्तो अभावा:अस्पृश्यस्पर्शाभावाः तत्सहितो यो भस्मादिसंयोगध्वंसः स एव शुद्धिपदस्यार्थः इति भावः ।
स्वत्वमिति - स्वत्वं द्रव्ये, स्वामित्वं चैत्रादौ । स्वत्वं पदार्थान्तरं न भवति, किन्तु यथेच्छया विनियोगो, दानमादानं, क्रयो विक्रय इत्यादिः, तद्योग्यत्वं स्वत्वपदार्थः । यथा चैत्रीये वस्तुनि चैत्रीयं यथेष्टविनियोगयोग्यत्वं न