________________
फक्किकासमन्वित-दीपिकाव्याख्यासमेतः • ७७
मशक्यत्वात् । अभावाभावो भाव एव, नातिरिक्तः, अनवस्थाप्रसङ्गात् । “ध्वंसप्रागभावः प्रागभावध्वंसश्च प्रतियोग्येव" इति प्राञ्चः । “अभावाभावस्तु अतिरिक्त एव, तृतीयाभावस्य प्रथमाभावरूपत्वात् न अनवस्था" इति नवीनाः ॥
[इति अभावपदार्थः]
अनादिरिति प्रतियोगी घटः, तत्समवायिकारणं मृत्पिण्डादि, तत्र घटप्रागभावो वर्तते, पुनः स घटस्य जनकः, 'पुनर्घटो भविष्यति' इति व्यवहारहेतुश्च । ध्वंसोऽपि प्रतियोगिसमवायिकारणवृत्तिः, 'अयं ध्वंसः' इति व्यवहारहेतुश्च । त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वम् अत्यन्ताभावत्वम् । अन्योन्याभावेऽतिव्याप्तिवारणाय तादात्म्यातिरिक्तसंसर्गावच्छिन्नेति वाच्यम् । प्रतियोगितेति घटात्यन्ताभावस्य प्रतियोगी घटः घटान्योन्याभावस्यापि प्रतियोगी घटः, एवम् एकः प्रतियोगी ययोस्तौ एकप्रतियोगिकौ तयोः अत्यन्ता भावान्योन्याभावयोः को भेदः ? तत्रोच्यते, अनयोर्नानात्वमस्ति कुतः ? संसर्गभेदात् । तथा हि प्रतियोगी घटः प्रतियोगिता घटे प्रतियोगितावच्छेदकं घटत्वम् । अथ यथा प्रतियोगितावच्छेदको धर्मः तथा तादृश आरोप्यसंसर्गोऽप्यस्ति, तस्य भेदो वर्तते । यथाऽत्यन्ताभावे संयोगसमवायात्मकः, अन्योन्याभावे तादात्म्यात्मकः, अयं भेदो बोध्यः । तत्तदिति श्यामरक्तादिघटाभावाद् घटत्वावच्छिन्नः प्रतियोगी यस्य स घटत्वावच्छिन्नप्रतियोगिकः, तादृशो यो घटसामान्याभावः सोऽतिरिक्तः । एवं श्यामरक्तादिघटान्योऽन्याभावाद् घटसामान्योऽन्याभावो ऽतिरिक्तः । घटत्वेन पटो नास्तीति व्यवहारेण व्यधिकरणधर्मावच्छिन्नाभावः कैश्चित् पृथङ् मन्यते तन्न, अत्यन्ताभावेनैव गतार्थत्वात् । अतिरिक्तत्वे सति तु अभिधेयत्वप्रमेयत्वादिवत् केवलान्वयी समये समये उत्पद्यते नश्यति च । एतादृशो योऽभावः सोऽप्यत्यन्ताभाव एव । भूतलेति-भूतलघटसंयोगप्रागभावस्य भूतलघटसंयोगप्रध्वंसस्य चेत्यर्थः । प्रतीतिरिति अत्यन्ताभावस्येति शेषः । केवलेति घटाभावो भूतलस्वरूप एव नातिरिक्त इति प्राभाकराः, तन्न, अभावो नाङ्गीक्रियते चेत् कैवल्यं निर्वचनं कर्तुं न शक्यते, अतः स स्वीकर्तव्य एवेत्यर्थः । ध्वंसेति-घटध्वंसस्य प्रागभावो
७८ • तर्कसंग्रहः
घट एव, घटप्रागभावस्य ध्वंसोऽपि घट एवेत्यर्थः । अत्र नव्या आहुः अभावेति ।
[अन्येषां पदार्थानां सप्तपदार्थान्तर्भावप्रदर्शनम् ]
सर्वेषामपि पदार्थानां यथायथम् उक्तेषु अन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ।
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥
[ अथ प्रमाणप्रमेयादिषोडशपदार्थानां सप्तपदार्थेष्वन्तर्भावप्रदर्शनम् ]
ननु 'प्रमाणप्रमेयसंशयप्रयोजन- दृष्टान्त-सिद्धान्त - ऽवयवतर्क निर्णय-वाद- जल्पवितण्डा - हेत्वाभासछल-जाति-निग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगमः' [ ] इति न्यायशास्त्रे षोडशपदार्थानामुक्तत्वात् कथं सप्तैव इत्यत आह- सर्वेषामिति । सर्वेषां सप्तस्वेवान्तर्भाव इत्यर्थः । 'आत्मशरीरेन्द्रियार्थबुद्धिमानः प्रवृत्तिदोषप्रेत्यभावफल-दुःखापवर्गास्तु प्रमेयम्' [ ] इति द्वादशविधं प्रमेयम् । प्रवृत्तिर्धर्माधर्मौ । रागद्वेषमोहा दोषाः । द्वेषो मन्युः । मोहः शरीरादौ आत्मत्वभ्रमः । प्रेत्यभावो मरणम् । फलं भोगः । अपवर्गो मोक्षः, स च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसः । प्रयोजनं सुखप्राप्तिः, दुःखहानिश्च । दृष्टान्तो महानसादिः । प्रामाणिकत्वेन अभ्युपगतोऽर्थः सिद्धान्तः । निर्णयो निश्चयः । स च प्रमाणफलम् । तत्त्वबुभुत्सोः कथा वादः । उभयसाधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनहीना वितण्डा । कथा नामनानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः । अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् । असदुत्तरं जातिः । साधर्म्य